________________
सूत्राणि १४-१६] स्वोपज्ञभाष्य-टीकालङ्कृतम्
२३१ सूत्रम्-दर्शनमोहा-ऽन्तराययोरदर्शनालाभौ ॥ ९-१४ ॥
भा०-दर्शनमोहान्तराययोरदर्शनालाभौ यथासङ्खधं दर्शनमोहोदयेऽदर्शमपरीषहः । लाभान्तरायोदयेऽलाभपरीषहः ॥ १४ ॥
टी०-दर्शनमोहः-अनन्तानुबन्धिनो मिथ्यात्वादित्रयं च, यथासङ्ख्यमिति क्रमेण दर्शनमोहे अदर्शनपरीषहः । अन्तराये अलाभपरीषहः । अदर्शनम्-अश्रद्धानं देवादिसद्भावविषयम्, अतो मिथ्यात्वानुबन्धाद् दर्शनमोहेऽन्तःपात इति ॥ १४ ॥ सूत्रम्-चारित्रमोहे नाम्या-रति-स्त्री-निषद्या-ऽऽक्रोश-याचना
सत्कारपुरस्काराः॥ ९-१५॥ भा०-चारित्रमोहोदये एते नाग्न्यादयः सप्त परीषहा भवन्ति ॥१५॥
टी०-दर्शनमोहवर्ज शेषं चारित्रमोहनीयम् । चारित्रं मूलोत्तरगुणसम्पन्नान्मोहनात् पराङ्मुखत्वाचारित्रमोहनीयम् । तदुदये सत्येते नाग्न्यादयः सप्त परीषहा भवन्ति । नाग्न्यं जुगुप्सोदयात् । अरत्युदयादरतिः । स्त्रीवेदोदयात् स्त्रीपरीषहः । निषद्यास्थानासेवित्वं भयोदयात् । क्रोधोदयादाक्रोशपरीषहः । मानोदयाद् याच्यापरीषहः । लोभोदयात् सत्कार (पुरस्कार)परीषह इति ॥ १५ ॥
सूत्रम् वेदनीये शेषाः ॥ ९-१६ ॥
भा०-वेदनीये शेषा एकादश परीषहा भवन्ति ये जिने सम्भवन्तीस्युक्तम् ( अ०९, सू० ११)। कुतः शेषाः १ एभ्यः प्रज्ञा-ऽज्ञान-दर्शना- लाभनाग्न्या-ऽरति-स्त्री-निषद्या-ऽऽक्रोश-याचना-सत्कारपुरस्कारेभ्य इति ॥१६॥
टी०-वेदनीयकर्मोदये शेषाः एकादश परीषहाः सम्पतन्ति । कुतः शेषाः ? उपर्युक्तेभ्योऽन्ये शेषाः। के पुनरुपयुक्ताः प्रज्ञा-ऽज्ञाने अदर्शना- लाभौ सप्त च नान्यादयः, एभ्यः शेषाः केवलिनो ये सम्भवन्ति । एकादश जिने प्रागुक्ताः क्षुत्पिपासाशीतोष्णदंशमशकचर्याशय्यावधरोगणस्पर्शमलपरीषहाख्या इति ॥ १६॥ _ एवमेते व्याख्यातनिमित्तलक्षणविकल्पाः आबादरसम्परायात् सर्वे भवन्ति । परतस्तु नियताः । तत् किमेते कदाचित् सर्वेष्वेकस्य जन्तोर्योगपद्येन सम्भवन्ति न वा ? सम्भवन्तीत्याह
१'वेधात् ' इति घ-पाठः। २ 'ततः' इति च-पाठः। ३ 'केवलिनि' इति घ-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org