SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ कवलिनः २३० तत्त्वार्थाधिगमसूत्रम् [अध्यायः भवस्थकेवलिनः शेषकर्मकारणामावाद् वेदनीयसम्भवाच्च तदाश्रया एव परीषहा भवन्तीत्याह सूत्रम्-एकादश जिने ॥ ९-११ ॥ री०-अस्य भाष्यम्भा०-एकादश परीषहाः सम्भवन्ति जिने घेदनीयाश्रयाः। तद्यथा - क्षुत्पिपासाशीतोष्णदंशमशकचर्याशय्यावघरोगतृणस्पर्शमल परीषहाः ॥ ११॥ री०-एकादशैव परीषहाः पूर्वोक्तचतुर्दशकमध्यादपनीय अमून् प्रज्ञाज्ञानालाभाख्यास्त्रीन् एकादश शेषा भवन्ति वेदनीयकर्माश्रया जिने । मोहपुरःसरेषु ज्ञानदर्शनाबरणान्तरायेषु क्षयमात्यन्तिकमुपगतेषु घातिकर्मसु उत्पन्नसकलज्ञेयग्राहिनिरावरणज्ञानो जिनः केवलीतियावत् । तत्रान्त्योपान्त्ययोर्गुणस्थानयोर्जिनत्वं, तत्र सम्भवः ॥ ११ ॥ सर्वेषां परीषहकारणानां कर्मणामुदयसम्भवमङ्गीकृत्याहसूत्रम्-बादरसम्पराये सर्वे ॥ ९-१२ ॥ भा०-चादरसम्परायसंयते सर्वे द्वाविंशतिरपि परीषहाः सम्भवन्ति ॥१२॥ टी० बादरः-स्थूलः सम्परायः-कषायस्तदुदयो यस्यासौ पादरसम्परायः संमतः। स च मोहप्रकृतीः कश्चिदुपशमयतीत्युपशमकः । कश्चित् क्षपयतीति क्षपकः । तत्र सर्वेषां मार्विशतेरपि क्षुदादीनां परीषहाणामदर्शनान्तानां सम्भव इति उक्ता गुणस्थानेषु यथासम्भवं परीषहाः ॥ १२ ॥ सम्प्रति कर्मप्रकृतिष्वन्तर्भावकथनायाह सूत्रम्-ज्ञानावरणे प्रज्ञाऽज्ञाने ॥ ९-१३ ॥ भा०-ज्ञानावरणीयोदये प्रज्ञाऽज्ञानपरीषहौ भवतः ॥ १३ ॥ टी-प्रज्ञा चाज्ञानं च प्रज्ञाऽज्ञाने। प्रज्ञापरीषहोऽज्ञानपरीषहश्च ज्ञानावरणे भवतः। ज्ञानावरणक्षयोपशमात् प्रज्ञाऽज्ञानं च । सत्येव हि ज्ञानावरणे तस्य क्षयोपशमः । ज्ञानावरणोदयाच्च अप्रज्ञा-निर्बुद्धिकत्वमज्ञानं चेति । कथं पुनरिदमुभयं लभ्यते । १ तुल्या हि संहिता अप्रज्ञा च ज्ञानं च अप्रज्ञाज्ञाने ज्ञानावरणोदये भवत इत्युभयथाऽपि स्पष्टं भाष्यम् ॥ १३॥ १ भवपरीषहा' इति -पाठः । २ — उत्तरगुण. ' इति ङ-पाठः । ३ 'रिदै लभ्यते' इति:-पाठः, “रिदमुदयं लभ्यते' इति तु च-पाठः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004023
Book TitleTattvarthadhigam Sutram Part 02
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages396
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy