________________
२१६
तत्वार्थाधिगमसूत्रम्
[ अध्यायः ९ न्ताशुचिः । ततोऽपि पित्तस्थानप्राप्तो मलतामापन्नोऽशुचिरेव । ततो वाय्वाशयं प्राप्तः समीरणेन विभज्यमानः पृथक् खलः पृथग् रस इति द्वयीं परिणतिमापद्यते । तत्र खलात् मूत्र-पुरीष दक्षिका-स्वेद-लालादयो मलाः प्रादुष्ष्यन्ति । रसाच्छोणित-मांस-मेदोऽस्थिमज्जा-शुक्राणि जायन्ते । सर्वे चैतत् कफादिशुक्रान्तमशुच्येव, तस्मादाद्युत्तरकारणाशुचित्वादशुचि शरीरमिति निगमयति ॥
अशुचित्वे हेत्वन्तरमाह
भा०-किश्चान्यत्-अशुचिभाजनत्वात् अशुचीनां खल्वपि भाजनं शरीरं कर्ण-नासा- क्षि-दन्त-मल-स्वेद-श्लेष्म-पित्त-मूत्र पुरीषादीनामवस्करभूतं तस्मादशुचीति ॥ किश्चान्यत्-अशुच्युद्भवत्वात् एषामेव कर्णमलादीनामुद्भवः शरीरं तत उद्भवन्तीति । अशुचौ च गर्भे सम्भवतीत्यशुचि शरीरम् ॥ किश्चान्यत्अशुभपरिणामपाकानुबन्धादातवे बिन्दोराधानात् प्रभृति खल्वपि शरीरं कलला-ऽर्बुदपेशी-घनव्यूह सम्पूर्णगर्भ-कौमार-यौवन-स्थविर-भावजनकेनाशुभप. रिणामपाकेनानुबद्धं दुर्गन्धि पूतिस्वभावं दुरन्तं तस्मादशुचि ॥
टी-किश्चान्यत् । अशुचिभाजनत्वादिति । अशुचीनि कर्णमलादीनि तेषामवस्करभूतम् । अवस्करो वचःस्थानं पाद(पायुः)क्षालनकं तदिव यत् तदवस्करभूतं तस्मादशुचीति । किश्चान्यत्-अशुच्युद्भवत्वादिति हेत्वन्तरम् । एषामेव कणमलादीनामशुचीनामुद्भव आकरः शरीरं यस्मात् तत उद्भवन्ति-उत्पद्यन्ते एते कणेमलादयः, अनन्तरेण हेतुना उत्पन्नानां कर्णमलादीनामाश्रयः शरीरमिति प्रतिपादितम् । अनेन पुनर्हेतुना शरीरादेव कर्णमलादय उत्पद्यन्त इति प्रतिपाद्यते। अथवाऽयं विशेष:-अशुचौ च गर्भे सम्भवतीत्यशुचि शरीरम् । गर्भः-उदरमध्यम् । चशब्दो वाशब्दार्थे । अशुचो वा गर्ने पुरीषादिप्राय सम्भवतिउत्पद्यते यस्माच्छरीरं तस्मादशुचीति । किश्चान्यदित्ययमपरो हेतुरशुचित्वे । अशुभपरिणामपाकानुबन्धादिति । अशुभः परिणामो यस्य पाकस्य तेनानुबन्धित्वात् अनुगतत्वात् । तमेवाशुभपरिणामं पाकं प्रकाशयति (आर्तव इत्यादिना) आर्तवम्-ऋतौ (भव) शोणितं तस्मिन् आर्तवे सति । बिन्दोराधानात् प्रभृतीति । बिन्दुः--शुक्रावयवस्तदाधानात्-तत्प्रक्षेपात प्रभृति औदारिकं कललादिभावेन परिणमते । अर्बुद-घनव्यूहोऽवयव विभागः । सर्वश्वायमशुभपरिणामः पाकः कललाद्यवयवरूपस्तेनानुबद्धं दुर्गन्धि-अशुभगन्धम् । अत एव पूतिस्वभावं कोथस्वभावम् । दुरन्तमिति । पर्यवसानेऽपि कुंम्यादिपुञ्जो वा गृध्र-सारमेय-वायसादिभक्ष्य वा भस्मान्तमस्थिशकलानि वा । एवमिदं दुष्टा(र १)न्तं शरीरं यतस्तस्मादशुचीति ।।
-
१' अशुचि परि० ' इति ङ-पाठः। २ 'बन्धाद् दुर्गन्धपूति' इति ग-पाठः। ३ ' अशुचिभाजनवदिति ड-पाठः। ४'वयंस्थानं ' इति उ-पाठः । ५ काथस्व.' इति ग-पाठः । ६ 'कृष्णादि ' इति क-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org