________________
सूत्र ७ ]
स्वोपज्ञभाष्य-टीकालङ्कृतम्
२१७
भा० - किञ्चान्यत् - अशक्यप्रतीकारत्वात् । अशक्यप्रतीकारं खल्वपि शरीरस्याशुचित्वम्, उद्वर्तन रूक्षण स्नाना- अनुलेपन- धूप- प्रघर्ष वासयुक्ति माल्यादिभिरप्यस्य न शक्यमशुचित्वमपनेतुम् ।
टी० - किञ्चान्यदिति प्रकारान्तरेणाशुचित्त्रप्रतिपादनम् । अशक्यप्रतीकारत्वादिति । अशक्यः प्रतीकारो यस्याशुचित्वस्य । अशुय्यपनयनप्रकारच लोके जलक्षालनादिना प्रसिद्धः । उद्वर्तनकं प्रतीतम् । रूक्षणं रोधकषायादिभिः । स्नानं जलेन । अनुलेपनं चन्दनादिकम् । धूपो विशिष्टसुगन्धिद्रव्यसमवायः । प्रधर्षोऽङ्गघर्षणकम् । वासयुक्तिः पटवासादिकम् । माल्यं मालाई पुष्पम् । आदिग्रहणात् कर्पूरोशीर तुरुष्ककस्तूरिकाग्रहः । एभिरयस्य शरीरकस्य विशिष्टद्रव्यैरशुचित्वमपनेतुं न शक्यम् । कुतः ?
भा० - अशुच्यात्मकत्वात् शुच्युपघातकत्वाच्चेति । तस्मादशुचि शरीरमिति । एवं ह्यस्य चिन्तयतः शरीरे निर्वेदो भवतीति । निर्विण्णश्च शरीर (रे जम्म) प्रहाणाय घटत इत्यशुचित्वानुप्रेक्षा ॥ ६॥
टी० - अशुच्यात्मकत्वादिति । अशुचिरात्मा - स्वभावो यस्य तदशुच्यात्मकम् । अशुचिस्वभावस्य पुरीषादेखि अशक्यप्रतीकारम् अशुचित्वापनयनम् । शुच्युपघातकत्वाचाशुचि शरीरम् । शुचीनि द्रव्याणि शाल्योदन दधिक्षीरादीनि तान्यप्यात्मसम्पर्कादुपहन्ति - अशुचीकरोति । तथा कर्पूर- चन्दन- काश्मीरजादीनि सुगन्धिद्रव्याणि संश्लेषमात्र देव पूतीकरोति, अतोऽन्विष्यमाणं सर्वप्रकारं शरीरमेवाशुचि । परमार्थतो नापरं किञ्चित् स्वतोशुचि समस्ति शरीरकं वा शरीरसम्पृक्तं वा विहायेति । एवं ह्यस्य चिन्तयत इत्यादिना अशुचित्वानुप्रेक्षायाः फलमाह - निर्वेदः -- अप्रीतिः अरतिः - उद्वेगः । शरीरके निर्विण्णच न शरीरसंस्कारार्थमायतते । जन्मप्रहाणायैव तु घटते इत्यशुचित्वानुप्रेक्षा ॥ ६॥
आस्रवानुप्रेक्षास्वभावप्रकाशनायाह
भा०—आस्रवान् इहामुत्रापाययुक्तान् महानदीस्रोतोवेगतीक्ष्णान अक्कुशलागमकुशलनिर्गमद्वारभूतान् इन्द्रियादीन् अवद्यतश्चिन्तयेत् ।
डी० - आस्तूयते यैः कर्मा दीयते त आस्रवास्ते इन्द्रियादयस्ताना स्त्रवानिह लोके । अमुत्रेति परलोके । अपायो - दोषः पीडा दुःखं तेनापायेन युक्तान् । महानदी - गङ्गादिका
१ 'घातत्वा०' इति ग-पाठः । २ ' भवति' इति घ-पाठः । ३ ' दधिपूरवधि' इति ङ-पाठः ।
२८
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org