________________
सूत्र ७ ]
स्वोपज्ञभाष्य-टीकालङ्कृतम्
२१५
भा०- - अशुचि खल्विदं शरीरमिति चिन्तयेत् । तत् कथमशरीरस्याशुचित्वे हेतुपञ्चकम् शुचीति चेत् आद्युत्तरकारणाशुचित्वात्, अशुचिभाजनत्वात्, अशुच्युद्भवत्वात्, अशुभ परिणामपाकानुबन्धात्, अशक्य
प्रतीकारत्वाचेति ॥
टी० - अशुचि खल्विदं शरीरमित्यादि । शुचि-मलरहितं न शुच्यशुचि शरीरकंपाणिपादाद्यवयवसन्निवेश विशेषस्तदशुचीत्येवं चिन्तयेत् ।
ननु च निर्मलशरीराः स्निग्धत्वचः स्त्रियः पुमांसश्च दृश्यन्ते तत् कथमस्य प्रतिज्ञामात्रेणाशुचित्वं प्रतिपद्येमहीत्याह
भा०- तत्राद्युत्तरकारणाशुचित्वात् तावच्छरीरस्याचं कारणं शु शोणितं च तदुभयमत्यन्ताशुचीति । उत्तरमाहार परिणामादि ।
टी० - तत्राद्युत्तरकारणाशुचित्वादित्यादि हेतुपञ्चकम् । तत्र तेषु पञ्चसु हेतुषु आधुत्तरकारणाशुचित्वादित्यस्य व्याख्या । तावच्छन्दः क्रमावद्योतनार्थः । आद्यं कारणंप्रथमं शुक्रं शोणितं च । करोतीति कारणम्, निर्वर्तयति उत्पादयतीत्यर्थः । येनासा (यो ना ?)बुत्पद्यमानो जीवस्तैजस कार्मणशरीरी प्रथममेव शुक्रशोणिते अभ्यवहरति शरीरीकरोति औदारिकशरीरतया परिणमयति । ततः कललार्बुदपेशीघनपाणिपादाद्यङ्गोपाङ्गशोणित मांस मस्तुलुङ्गास्थिमज्ज केशश्मश्रुनख शिराधमनी रोमकूपादिना परिणमयति । उत्तरकारणं तु रसहरण्या परस्परप्रतिबद्धया जनन्याहृतमाहाररसमभ्यवहरति । तदेव तदुभयमत्यन्ताशुचीति शुक्रशोणितयोरशुचित्वं लोकस्य प्रतीतमिति ख्यापयति अत्यन्ताशुचीति, न जातुचिच्छुचित्वं शुक्रशोणितयोः समस्ति ॥
भा०-- तद्यथा - कवलाहारो हि ग्रस्तमात्र एव श्लेष्माशयं प्राप्य श्लेष्मणा द्रवीकृतः अत्यन्ताशुचिर्भवतीति । ततः पित्ताशयं प्राप्य पच्यमानः खेली भूतोऽशुचिरेव भवति । पक्को वाय्वाशयं प्राप्य वायुना 'विभिद्यते पृथक खलः पृथग रसः, खलात् मूत्रपुरीषादयो मलाः प्रादुर्भवन्ति, रसाच्छोणितं परिणमति, शोणितान्मांस, मांसान्मेदः, मेदसोऽस्थीनि, अस्थिभ्यो मैज्जानः, मज्जभ्यां शुक्रमिति । सर्व चैतत् श्लेष्मादिशुक्रान्तमशुचि भवति । तस्मादात्तरकारणाशुचित्वादशुचि शरीरमिति ॥
टी० – तद्यथा - कवलाहारो हीत्यादिनोत्तरकारणस्याशुचित्वमाचष्टे । कवलाहारो हि जनन्या ग्रस्तमात्र एव श्लेष्माशयं कफस्थान प्राप्तः श्लेष्मणा द्रवतामापादितोऽस्य
१' मनुचिन्त' इति पाठः । २ अम्लीकोलाचि०' इति घ-पाठः । ३' विभज्यते ' इति घ-पाठः । ४' मज्जा मज्जाभ्यां शुक्रं ' इति घ-पाठः । ५ ' शुचिभवात ' इति घ-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org