________________
तस्वार्थाधिगमसूत्रम्
[ अध्यायः
टी० - शरीरव्यतिरेकेणेत्यादि । शरीरं पञ्चप्रकारं औदारिकादि तस्माच्छरीरपञ्चकादन्योऽहम् । कुत एतत् १ यस्मादिन्द्रियग्राह्यं शरीरं, अतीन्द्रियोऽहं न चक्षुरादिना करणेन ग्रहीतुं शक्यः । इन्द्रियग्राह्यं शरीरमित्यव्यापिनी भेदप्रतिपत्तिरित्याह ।
२१४
भा०- अनित्यं शरीरं नित्योऽहम्, अज्ञ शरीरं ज्ञोऽहम्, आद्यन्तवच्छरीरं अनाद्यन्तोऽहम्, बहूनि च मे शरीरशतसहस्राणि अतीतानि संसारे परिभ्रमतः स एवायमहमन्यस्तेभ्य इत्यनुचिन्तयेत् । एवं ह्यस्य चिन्तयतः शरीरप्रतिबन्धो न भवतीति । अन्यच्च शरीरान्नित्योऽहमिति श्रेयसे घटत इत्यन्यस्वानुप्रेक्षा ॥ ५ ॥
टी० – अनित्यं शरीरमित्यादि । पुद्गलात्मकमौदारिकादि शरीरं, पुद्गलाश्च विशरारुत्वाच्छरीरसन्निवेशविशेषं विहाय स्कन्धान्तरेण परमाणुरूपेण वा वर्तन्ते, न जातुचिदात्मा असङ्ख्येयप्रदेशसन्निवेशं परित्यज्य ज्ञानदर्शनरूपं वो वृत्तो वर्तते वर्तिष्यते वा । ततश्च नित्यत्वमात्मनः । नेनु परिणामानित्यतया आत्मा अनित्योऽपीष्यते इत्यपरितुष्यन्नाह - अज्ञं शरीरं ज्ञोऽहमिति । न कदाचित् पुद्गला ज्ञानाद्युपयोगरूपेण परिणामिनो भवन्ति । आत्मा तु परिणामी । ज्ञानाद्युपयोगपरिणामेन अतोऽन्यत्वं, तथा आद्यन्तवच्छरीरं अनाद्यन्तोऽहम् । आदि : - आरम्भकालः अन्तो - विनाशकालः, तौ यस्य स्तस्तद् आद्यन्तवत् । आदिरौदारिकवैक्रिया - ssहारकाणां सुज्ञानः । तैजस- कार्मणयोः सत्यप्यनादिसम्बन्धे सन्तत्याऽनादित्वमिष्टं, पर्यायाङ्गीकारेण तु तैजसकार्मणपुद्गलाः परिशटन्ति लगन्ति च । यदाऽऽश्लेषमायान्ति तैजसकार्मणतया तदा आदिः यदा परिशदन्ति तदाऽन्तः । नैवमात्मनः कदाचिदादिरन्तो वा विद्यते, आरभ्यारम्भकभावाभावात् । ज्ञानरूपेण दर्शनरूपेण वा (दर्शयति) अविच्छिन्नत्वात् तत्स्वरूपत्वाच्च सर्वदेवानाद्यन्तोऽहं इतश्चान्यत्वम् । बहूनि च मे शरीरशतसहस्राणीत्यादि । न हि प्राक्तनजन्मशरीराणि इदानीन्तनजन्मशरीराणि भवन्ति । संसारे परिभ्रमतः । अनादौ च संसारे परिश्रमतो बहून्यतीतानि शरीरकाणि, नहि तेषां अधुनातनशरीरेsaयोऽस्ति स्वल्पोऽपि । अहं पुनः स एव येनोपभुक्तान्यतीतानि शरीरशनमहस्राणीत्यतोsहमन्यस्तेभ्य इत्यनुचिन्तयेत् । अन्यत्वे च सति विच्छिन्नशरीरममत्वो निःश्रेयसायैव यतते इत्यन्यत्वानुप्रेक्षा ॥
"
अशुचित्वानुप्रेक्षा निर्धारणायाह
४
१' चावृत्तो' इति ग-पाठः । २ ' न च ' इति घ-पाठः । ३. ' परिणमितोऽतोऽन्यत्वं ' इति उ-पाठः । आरम्भारभ्यकाभावात् ' इति ङ -पाठः । ५ ' त्वात्सर्व' इति ङ - पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org