SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ सूत्र ७ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् २१३ यादृशः संसारः, बन्दा वधबन्धदंशमशकशीतोष्णादयः त एवारामो यत्र संसमो। आरामो हि नानाजातीयतरुसमूहः । आराम इवारामो द्वन्द्वानां सबातः। कष्टं-कृच्छ्रे सुःखं गहनं स्वभावः-स्वरूपं यस्य संसारस्येत्येवं चिन्तयेत् । ततः संसारभयानुदिनस्य जातारतेः सांसारिकसुखजिहासालक्षणो भवति निर्वेद इत्येषा संसारानुप्रेक्षा ॥ ___ एकत्वभावनास्वरूपभावनायाह भा०—एक एवाहं, न मे कश्चित् सः परो वा विद्यते। एक एवाहं जाये। एक एव प्रिये ॥ टी०-एक एवाहमित्यादि । एक एवाहं न जातुचित् ससहायो जाये प्रिये वाजननं मरणं वाऽनुभवामीति । यमलकयोरपि क्रमेणैव निःसरणम् । यच जन्मनि दुःखं मरणे वा तदेक एवा(हम)नुभवामीत्यर्थः। न तस्य मदीयस्याशर्मणोऽनुभवे कश्चित् सहायोऽस्ति । ततश्च सहजन्मानः सहमरणाश्च निगोदजीवा अपि न व्यभिचारयन्त्यमुमर्थमेक एवाई जाये एक एवाहं म्रिये इति ॥ एतदेव भाष्येण दर्शयति भा०-न मे कश्चित् स्वजनसंज्ञः परजनसंज्ञो वा व्याधि-जरा-मरणादीनि दुःखान्यपहरति प्रत्यंशहारी वा भवति । एक एवाहं स्वकृतकर्मफलमनुभवामीति चिन्तयेत् । एवं यस्य चिन्तयतः स्वजनसंज्ञकेषु स्नेहानुरागप्रतिवन्धो न भवति परसंज्ञकेषु च द्वेषानुबन्धः। ततो निःसङ्गतामभ्युपगतो मोक्षायैव घटत इत्येकत्वानुप्रेक्षा ॥ ४ ॥ टी-न मे कश्चिदित्यादि । मत्तः सकलं दुःखमाक्षिप्यात्मनि निधत्ते इत्येतन, प्रत्यंशो विभागो वण्टनम् । न च सम्भूय स्वजनाः परजना वा मयि दुःखमुत्पन विभाजयन्तीत्यर्थः । ततश्चैक एवाहं स्वकृतस्य कर्मणः फलमनुभवामीति चिन्तयेत् । स्नेहानुरागप्रतिबन्ध इति । जनन्यादिष्वकामविषये स्नेहः, भार्यायां कामविषयोऽनुरागः, प्रतिबन्धः-आसक्तिन भवति । परसंज्ञकेषु देषानुवन्धः। पर एवायं न कदाचिदात्मीयो भवति किमनेन ममाहतेनेति । ततः स्वजनेषु परजनेषु च निःसङ्गतामुपगतो मोक्षायैव यतेत (घटेत ?) इत्येकत्वानुप्रेक्षा ॥ अन्यत्वभावनाविभावनायाह भा०-शरीरव्यतिरेकेणात्मानमनुचिन्तयेत्-अन्यच्छरीरमन्योऽहम्, ऐन्द्रिपकं शरीरम्, अतीन्द्रियोऽहम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004023
Book TitleTattvarthadhigam Sutram Part 02
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages396
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy