________________
२१२ तत्त्वार्थाधिगमसूत्रम्
[अध्यायः ९ भा०नहि स्वजनपरजनयोव्यवस्था विद्यते । माता हि भूत्वा भगिनी
भायों दुहिता च भवति । भगिनी भूत्वा माता भायो दुहिता स्वजन-परजनविवेकः न च भवति । भार्याभूत्वा भगिनी दुहिता माता च भवति । दुहिता
भूत्वा माता भगिनी भार्या च भवति । तथा पिता भूत्वा भ्राता पुत्रः पौत्रश्च भवति । भ्राता भूत्वा पिता पुत्रः पौत्रश्च भवति । पुत्रो भूत्वा [ शत्रुर्भवति ] पिता भ्राता पौत्रश्च भवति । पौत्रो भूत्वा पिता (भ्राता) पुत्रश्च भवति । भर्ता भूत्वा दासो भवति । दासो भूत्वा भर्ता भवति । मित्रं भूत्वा शत्रुर्भवति । शत्रुभूत्वा मित्रं भवति । पुमान् भूत्वा स्त्री भवति नपुंसक च । स्त्री भूत्वा पुमान, नपुंसकं च भवति । नपुंसकं भूत्वा स्त्री पुमांश्च भवतीति ॥ ____टी-नहि स्वजनपरजनयोर्व्यवस्था विद्यत इति । न नित्यमेव कश्चित् स्वजनः परजनो वाऽस्ति । स्वजनो भूत्वा कर्मानुभावात् परजनो भवति । परजनश्च भूत्वा स्वजनो भवति इयमव्यवस्थैव संसारे न व्यवस्थाऽस्तीति । माता हि भूत्वेत्यादिना तामेवाव्यवस्था प्रपञ्चयति ॥
भा०–एवं चतुरशीतियोनिप्रमुखशतसहस्रेषु राग-द्वेष-मोहाभिभूतैर्जन्तुभिरभिनिवृत्तविषयतृष्णैरन्योन्यभक्षणाभिघातबन्धाभियोगाक्रोशादिजनितानितीवाणि दुःखानि प्राप्यन्ते । अहो द्वन्द्वारामः कष्टस्वभावः संसार इति चिन्तयेत्। एवं यस्य चिन्तयतः संसारभयाद्विग्नस्य निर्वेदो भवति । निर्विण्णश्च संसारप्रहाणाय घटत इति संसारानुप्रेक्षा ॥ ३ ॥
टी०–एवं चतुरशीतियोन्यादिर्यत्र सम्मूर्च्छति गर्भस्थानं वा तत्र विभागो भवति परस्परं केनचिद वैलक्षण्येन दृश्येनादृश्येन वा सर्वज्ञवचनग्राह्येण । तत्र पृथिवी८४००००० जल-ज्वलन-समीरणेषु प्रत्येकं सप्त सप्त लक्षाः, दश लक्षाः प्रत्येकवनस्पतिषु,
योनयः निगोदजीवेषु च चतुर्दशलक्षाः, द्वि त्रि-चतुरिन्द्रियेषु प्रत्येकं द्वे द्वे लक्षे, तिये. नारक-देवेषु प्रत्येकं चतस्रश्चतस्रो लक्षाः, मनुजेषु चतुर्दश लक्षाः, एवं चतुरशीतिर्लक्षा योनीनां, चतुरशीतियोनिप्रमुखानि शतसहस्राणि । प्रमुखशब्दः प्रधानवचनः । चतुरशीतियोनिप्रधानानि यानि शतसहस्राणि तेषु, नान्येष्वित्यर्थः। रागो माया-लोभौ देषः क्रोध-मानौ मिथ्यात्वहास्यादिर्मोहः, एभिरभिभूतैः-वशीकृतैर्जन्मवद्भिः अनिवृत्ता विषयतृष्णा येषां तैरविच्छिन्नविषयतर्थैरन्योन्यं-परस्परं भक्षणं पृथुरोमादीनामिव । तथा वधः (अभिघातः १)-मारणं बन्धः-संयमनं अभियोगः-अभ्याख्यानं ( आ. क्रोश:-अप्रियवचनं, एभिरन्योन्यभक्षणादिभिर्जनितानि तीव्राणि-प्रकृष्टानि दुःखानि प्राप्यन्ते-अनुभूयन्ते । अहो इति विस्मये न, ) आः खल्वेवंविधदुःखभाजनमन्यदस्ति
१ पौर्वापर्ये विपरीतत्वं घ-पुस्तके । २ — भवति' इति घ-पाठः । ३ 'मवस्यैव ' इति च-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org