________________
सूत्रं ७ ]
स्वोपज्ञभाष्य–टीकालङ्कृतम्
२११
एवमित्यादिना दाष्टन्तिकमर्थं समीकरोति । जन्म - योनेर्निःसरणं गर्भाधानं वा, उभयं दुःखहेतुस्तत्राकुलः पिण्डकवद् योनिमुखेन पीड्यमानः कृच्छ्रेण अशरणभावनायाः निःसरति । उदरस्थोऽपि पिण्डितावयवत्वात् पुरीतन्मूत्रपुरीषाकुलितः स्वरूपम् कतिचिन्मासान् दुःखेन गमयति । निलुठितस्तु योनेर्जरसा ग्रस्यत एव, प्रतिक्षणमवस्थान्तरापत्तेः । मरणमप्यावीचिकमवश्यंभाव्येव जन्मवतः । व्याधयो ज्वरातीसार-कास- श्वास- कुष्ठप्रभृतयः । प्रियः - इष्टो जनस्तेन सह विप्रयोगः । तद्विपरीतोप्रियस्तेन च सं (प्र) योगः । ईप्सितमाप्तुमिष्टं तस्याऽलाभः । दौर्मनस्यं मानसमेव दुःखम् । अतः स्वमरणमल्पायुषत्वादुपक्रमसन्निधानाद् वा सकलायुषः परिक्षयाद वाऽवश्यंतया प्राणिनां संसारे भवति । आदिग्रहणाद् वधबन्धपरिक्लेशशीतोष्णदंशमशकद्वन्द्वाभिभवः ॥
भा०- - एवं ह्यस्य चिन्तयतो नित्यमशरणोऽस्मीति नित्योद्विग्नस्य सांसारिकेषु भावेष्वनभिष्वङ्गो भवति । अर्हच्छासनोक्त एव विधौ घटते, तंद्धि परं शरणमित्यशरणानुप्रेक्षा ॥ २ ॥
टी० – एवं जन्मनाऽऽदितः समुद्भूतेन दुःखेनालीढस्य जन्मवतः शरणं नास्तीत्यालोचयतः सर्वदाऽहमशरण इति नित्यमेव भीतस्य सांसारिकेषु भावेषु मनुजसुरसुखेषु हस्त्यश्वादिषु हिरण्यसुवर्णादिषु च नाभिष्वङ्गो-न प्रीतिर्भवतीति परमर्षिप्रणीतशासनाभिहिते एव विधौ ज्ञानचरणादिलक्षणे घटते- प्रवर्तते इति । जन्मजरामरणभयपरिष्वक्तस्य च यस्मात् तदेव परं - प्रकृष्टं शरणमित्यशरणानुप्रेक्षा ॥
संसारानुप्रेक्षा निरूपणाय प्रक्रमते
भा०
- अनादौ संसारे नरक- तिर्यग्योनि- मनुष्या-मर भवग्रहणेषु चक्रवत् परिवर्तमानस्य जन्तोः सर्व एव जन्तवः स्वजनाः परजना वा ॥
टी०–अनादौ संसारे इत्यादि । अविद्यमान आदिर्यस्यासावनादिर्नाभूत् उत्पन्नो नाप्युत्पादितः केनचिदिति । संसरणम् - इतश्चेतश्च गमनं संसारस्तस्य चातुर्विध्यं नरकादिभेदेन । भवशब्दो जन्मवचनः । नरकादिजन्मनां ग्रहणानि - उपादानानि तेषु चक्रवत् तत्रैव परिभ्रमतो जन्मवतः सर्व एव प्राणिनः क्षिति-जल- दहन - पवन-वनस्पतिशरीराः द्वि-त्रि- चतु:पञ्चेन्द्रियलक्षणाः स्वजनकाः सन्तो यदा यौनेन सम्बन्धेन स्वाम्यादिसम्बन्धेन वा सम्ब न्धमन्वभूवन्ननुभवन्त्यनुभविष्यन्ति वा तदा स्वजनाः, स्वाम्यादयो वा यदा न सम्बद्धास्तदा परजनाः । एतदेव दर्शयति-
१' नाद्यसकला' इति च पाठः । २ ' तद् विपरीतं ' इति ग-पाठः । ३ ' स्वजनः परजनो वा' इति घ
टी-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org