SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ सूत्र १२ ] भा० ० - स्थावर भावनिर्वर्तक स्थावरनाम | स्वोपज्ञभाष्य–टीकालङ्कृतम् स्थावर भावेत्यादि । स्थावरनाम स्थानशीलं स्थावरं तद्भावः स्थावरत्वं निर्वर्तयति यत् पृथिव्यम्बु वनस्पत्यादिलक्षणं तत् स्थावरनामकर्म । स्थानशीलत्वं तु स्थावरनाम कर्मो दयादेव पृथिव्यम्बुवनस्पतीनाम् । परमार्थतस्तु तत्र स्थावरनामकर्मोदयात् स्थावरत्वं, परिस्पन्दो भवतु मा वाऽभूत् । एवं च तेजोवाय्वोरपि स्थावरत्वसिद्धिः कर्मोदयादेवेति ॥ - सौभाग्यनिर्वर्तकं सुभगनाम । भा० डी० - सौभाग्येत्यादि । कमनीयः सुभगो - मनसः प्रियस्तद्भावः सौभाग्यं तस्य निर्वर्तकं - जनकं सुभगनाम । भा० - दौर्भाग्यनिर्वर्तकं दुर्भगनाम । टी० - दौर्भाग्येत्यादि । सौभाग्यविपरीतलक्षणं दुर्भगनाम । अनिष्टो मनसो योऽप्रियस्तद्भावो दौर्भाग्यम् । यस्य कर्मण उदयादिति ॥ १५९ भा०- सौस्वर्यनिर्वर्तकं सुस्वरनाम । दौः स्वर्यनिर्वर्तकं दुःस्वरनाम । टी० – सौस्वर्येति । येन शब्देनोच्चरितेनाकर्णितेन च भूयेसी प्रीतिरुत्पद्यते तत् सुस्वरनाम । तद्विपरीतं दुःस्वरनाम । यत् तु श्रूयमाणमसुखमावहति तद् दुःस्वरनामेति ॥ भा० – शुभभावशोभामाङ्गल्यनिर्वर्तकं शुभनाम । तद्विपरीतनिर्वर्तकं अशुभनाम | टी० - शुभेति । शुभो भावः पूजित उत्तमाङ्गादिस्तजनितः शोभा पूजा पुरस्कार : शिरसा पादादिनाऽस्पर्शनं माङ्गल्यमिति पवित्रं तन्निर्वर्तकं शुभनाम । तद्विपरीतनिर्वर्तकमशुभनाम | शरीरावयवानामेव हि शुभाशुभता ग्राह्या । यथा पादेन स्पृष्टः क्रुध्यतीति ।। भा०-- सूक्ष्मशरीर निर्वर्तकं सूक्ष्मनाम । बादरशरीरनिर्वर्तकं बादरनाम ॥ टी० – सूक्ष्मेति । सूक्ष्मं - श्लक्ष्णं अदृश्यं नियतमेव यस्य कर्मण उदयाद् भवति शरीरं पृथिव्यादीनां केषाञ्चिदेव तत् सूक्ष्मशरीरनाम । बादरशरीरनिर्वर्तकं बादरनाम । बादरं स्थूल के पाश्चिद् विद्यावतां जीवानामिव यस्य कर्मण उदयात् स्थूलशरीरखा भवति तद् बादरनामेति, न तु चक्षुर्ग्राह्यतां प्रतीत्यापेक्ष्य सूक्ष्मबादमिति ॥ पर्याप्तस्थिर देययशसां सप्रतिपक्षाणां स्वरूपनिरूपणाय प्रक्रम्यते Jain Education International भा०- पर्याप्तिः पञ्चविधा । तद्यथा - आहारपर्याप्तिः, शरीरपर्याप्तिः, इन्द्रियपर्याप्तिः, प्राणापानपर्याप्तिः, भाषापर्याप्तिरिति । पर्याप्तिः क्रियापरिसमाप्तिः आत्मनः । १' मनसोऽप्रिय' इति च - पाठः । २ ' भूयसा ' इति च-पाठः । ३ 'रतेति' इति - णठः । For Personal & Private Use Only www.jainelibrary.org
SR No.004023
Book TitleTattvarthadhigam Sutram Part 02
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages396
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy