________________
१६०
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ८ टी-पर्यासिः पञ्चविधेत्यादि । पर्याप्तिः पुद्गलरूपात्मनः कर्तुः करणविशेषः । येन करणविशेषेणाहारादिग्रहणसामर्थ्यमात्मनो निष्पद्यते तच्च करणं यैः पुद्गलनियते ते पद्गला आत्मनाऽऽत्तास्तथाविधपरिणतिभाजः पर्याप्तिशब्देनोच्यन्ते । सामान्येनोद्दिष्टां पर्याप्ति नामग्राहं विशेषेण 'निर्दिदिक्षनाह-तद्यथेत्यादि । आहारग्रहणसमर्थकरणपरिनिष्पत्तिराहारपर्याप्तिः । शरीरकरणनिष्पत्तिः शरीरपर्याप्तिः । इन्द्रियकरणनिष्पत्तिरिन्द्रियपर्याप्तिः । प्राणापानौ-उवासनिःश्वासौ तद्योग्यकरणनिष्पत्तिः प्राणापानपर्याप्तिः । भाषायोग्यपुद्गलग्रहणविसर्गसमर्थकरणनिष्पत्ति षापर्याप्तिः । यथोक्तम्
"आहारसरीरेंदिय ऊसासवओमणोऽहिनिवित्ती।
__ होइ जओ दलियाओ करणं एसा:उ पज्जत्ती ॥" इतिशब्दःइयत्ताप्रतिपादनार्थः ॥
ननु च षट् पर्याप्तयः पारमर्षवचनप्रसिद्धाः कथं पञ्चसंख्याका इति ? उच्यतेइन्द्रियपर्याप्तिग्रहणादिह मनःपर्याप्सेरपि ग्रहणमवसेयम् । अतः पश्चैवेति निश्चयः॥
ननु च शास्त्रकारेणानिन्द्रियमुक्तं मनः, कथमिन्द्रियग्रहणाद् ग्रपर्याप्तिसङ्ख्या- हीष्यते तदिति ? उच्यते-यथा शब्दादिविषयग्राहीणि साक्षाच्चक्षुरादीनि
न तथा मनः, सुखादीनां पुनः साक्षाद्ग्राहकं मनः, न सम्पूर्णमिन्द्रियमित्यनिन्द्रियमुक्तम् । इन्द्रलिङ्गत्वात् तु भवत्येवेन्द्रियमिति ॥ तथा केचिदाचार्याः पृथग्मनापर्याप्तिग्रहणमधीयत इत्युपरिष्टादभिधास्यते । यच्चावधारणं पश्चैवेति तद् बाह्यकरणापेक्षया । मनः पुनरन्तःकरणमतः पृथक् पठन्तीति न कश्चिद् दोषः । उभयथापि मनःपयोप्तिसम्भव इति । पर्याप्तिः परिनिष्पत्तिर्विवक्षितक्रियापरिसमाहिरात्मनस्तैजसकार्मणशेरीरमाज एव, औदारिकादिशरीरप्रेक्षायां प्रथमत एवोत्पत्तावेताश्चिन्त्यन्ते, जन्मान्तरग्रहणकाल इत्यर्थः । युगपचारब्धाः षडपि क्रमेण निष्पद्यन्ते, न सम्कम्, उत्तरोत्तरपर्याप्तीनां बहुतरकालत्वात् । क्रमथायम्-आहार-शरीरे-न्द्रिय-प्राणापान-वचन-मनोलक्षणः। तत्राहारपयोप्तिस्वरूपनिरूपणायाह
भा०–शरीरेन्द्रियवाचनःप्राणापानयोग्यदलिकद्रव्याहरणक्रियापरिसमाप्ति: आहारपयोप्तिः । गृहीतस्य शरीरतया संस्थापनक्रियापरिसमाप्तिः शरीरपयोतिः। संस्थापनं रचना घटनमित्यर्थः।
१ . निर्दिदृक्ष' इति च-पाठः । २ 'करणपरिनिष्पति' इति च-पाठः । ३ छाया
माहारशरीरेन्द्रियोच्छ्वासनिःश्वासमनोऽभिनिर्वृत्तिः ।
भवति यस्मात् दलिकात् करण एषा तु पर्याप्तिः॥ ४'शरीर एव' इति -पाठः ।
परामर्शः
हाव्यत तदिति ? उसने
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org