________________
सूत्रे १२]
स्वोपज्ञभाष्य - टीकालङ्कृतम्
टी० - शरीरेत्यादि । शरीरस्येन्द्रियाणां वाचो मनसः प्राणापानयोश्चागमप्रसिद्धवर्गणाक्रमेण यानि योग्यानि दलिकद्रव्याणि तेषामाहरणक्रिया ग्रहणम् - आदानं तस्याः परिसमाप्तिराहारपर्याप्तिः करणविशेषः । अत्र च मनोग्रहणात् परिस्फुटमिन्द्रियग्रहणे न मनसोऽप्युपादानमिति । सामान्येन गृहीतस्य योग्यपुद्गलसङ्घातस्य शरीराङ्गोपाङ्गतया संस्थापनक्रिया- विरचनक्रिया तस्याः पर्याप्तिः शरीरपर्याप्तिः । संस्थापनशब्दार्थ प्रकाशनं पर्यायशब्दैरावेदयते - संस्थापनं रचना घटनमित्यर्थः । शरीरवर्गणायोग्यपुद्गलानां प्रतिनियतावयवेनेत्यर्थः ।
भा०
० - त्वगादीन्द्रियनिर्वर्तनक्रियापरिसमाप्तिरिन्द्रियपर्याप्तिः । टी० - स्वगिति स्पर्शनेन्द्रियं तदादीन्द्रियं स्पर्शन-रसन घ्राण चक्षुः श्रोत्र- मनोलक्षणम् । तत्र च रूपनिर्वर्तनक्रियापरिसमाप्तिरिन्द्रियपर्याप्तिः ॥
भा० – प्राणापान क्रियायोग्यद्रव्य ग्रहणनिसर्गशक्तिनिर्वर्तनक्रियापरिसमाप्तिः प्राणापानपर्याप्तिः ॥
टी० - प्राणेति । प्राणापानावुच्छ्वासनिश्वासक्रियालक्षणौ तयोर्वर्गणाक्रमेण योग्यद्रव्यग्रहणशक्तिः-सामर्थ्यं तन्निर्वर्तनक्रियापरिसमाप्तिः प्राणापानपर्याप्तिः ॥
भा०- भाषायोग्यद्रव्यग्रहणनिसर्गशक्ति निर्वर्तनक्रियापरिसमाप्तिर्भाषाप
१६१
र्याप्तिः ।
टी० - अत्रापि वर्गणाक्रमेणैव भाषायोग्यद्रव्याणां ग्रहणनिसर्गौ तद्विषया शक्तिः - सामर्थ्य तन्निर्वर्तन क्रियापरि समाप्तिर्भाषापर्याप्तिरिति ॥
भा० - मनस्त्वयोग्यद्रव्यग्रहणनिसर्ग शक्तिनिर्वर्तनक्रियापरिसमाप्तिर्मन: पर्याप्तिरित्येके ।
डी० - मनस्त्वयोग्यानि मनोवर्गणा योग्य नि मनःपरिणामप्रत्यलानि यानि द्रव्याणि तेषां ग्रहणनिसर्गसामर्थ्यस्य निर्वर्तनक्रियापरिसमाप्तिर्मनः पर्याप्तिरिति । एके वाचार्या मेवेन मनः पर्याप्तिमुपाददते । इन्द्रियपर्याप्तिं नोइन्द्रियपर्याप्तिग्रहणेन गृहन्ते । इन्द्रियपर्याप्सिं व्यतिरेकेण पठन्तीत्यर्थः । न पुनर्मनः पर्याप्तिं केचिदिच्छन्ति के चिनेति ॥
भा०-- आसां युगपदारब्धानामपि क्रमेण सभातिरुत्तरोत्तर सूक्ष्मतर स्वात् सूत्रदार्वादिकर्तनघटनवत् । यथासङ्ख्यं च निदर्शनानि -
टी० -- आसामित्यादिना षडपि पर्याप्तयः समकमारब्धाः क्रमेण परिसमाप्तिमासा - दयन्तीति दर्शयति । किं पुनः कारणं वैषम्येण परिनिष्ठा याऽसामित्याह उत्तरोत्तर सूक्ष्म
१' स्वरूप' इति च पाठः । २ ' मनश्च' इति ङ-प 5: । ३ 'र्गस्य पर्यासस्य' इति ङ-पाठः । ४ 'यीप्तिशनिन्द्रिय इति ऊ-पाठः '
२१
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org