________________
१६२ तत्वार्थाधिगमसूत्रम्
[अध्यायः ८ तरत्वादिति । आहारपर्याप्तेः शरीरपाप्तिः सूक्ष्मतरा बहुतरसूक्ष्मद्रव्यनिचयघटिता । ततोऽपीन्द्रियपर्याप्तिः सूक्ष्मतरा । तस्या अपि प्राणापानपयोप्तिः। ततोऽपि वाक्पयाप्तिः। ततश्च मन:पयोप्तिः सुमुक्ष्मेति । तच्चोत्तरोत्तरसूक्ष्मत्वं दृष्टान्तेन भावयति-सूत्रदावादिकतैनघटनव दिति । स्थूलसूत्रकर्तिका सूक्ष्मसूत्रकर्तिका च ते कर्तनं युगपदारभेते । तत्र स्थूलसूत्रकर्तिका चिराय क्रुक्कुटकं पूरयति । इतरा त्वाशु परिसमापयति । दारुघटनेऽप्येष एव क्रमः । स्तम्भादीनां स्थलरूपनिर्वर्तनं समचतुरस्रादि स्वल्पेन कालेन क्रियते, स एव स्तम्भः कुट्टिमपत्रच्छेद्यपुत्रिकासङ्घाटकयुक्तश्चिरेण निष्पाधते तुल्यकालेऽपि प्रारम्भे । आदिशब्दाचित्र-पुस्तलेप्यकादिपरिग्रहः । यथासङ्ख्यं च निदर्शनानीति॥ :___ अनेन षण्णामपि पर्याप्तीनां क्रमेण पभिरेव दृष्टान्तैः स्वरूपमुपक्रमते । अतो दृष्टान्तस्वरूपप्रतिपादनायाह
. भा०-गृहदलिकग्रहणस्तम्भस्थूणाद्वारप्रवेशनिर्गमस्थानशयनादिक्रियानिचर्तनानीति। पर्याप्तिनिर्वर्तकं पर्याप्तिनाम, अपर्याप्तिनिर्वर्तकमपर्याप्तिनाम, (अप. योप्तिनाम) तत्परिणामयोग्यदलिकद्रव्यमात्मनोपात्तमित्यर्थः॥ ____टी-गृहदलिकग्रहणेत्यादि । तत्र गृहंदलिकग्रहणेनाहारपर्याप्ति साधयति । गृहं कर्तव्यमिति सामान्येन. दलिकमादत्ते शाकादिकाष्ठम् । ततः सामान्योपात्ते दलिकेऽत्र स्तम्भः स्थूणा वा भविष्यतीति निरूप्यते । एवमनेकपुद्गलग्रहणे सत्यत्रामी शरीरवर्गणा. योग्याः पुद्गलाः शरीरनिष्पादनक्षमा इति शरीरपर्याप्तिः । भित्त्याधुच्छ्रायरूपगृहालोचनायामपि सत्यां कतिबारमिदं प्राङ्मुखमुदङ्मुखं वा प्रवेशनिर्गमनार्थमालोच्यते, तथेन्द्रियपर्याप्ति रप्यात्मन उपयोगवृत्त्या प्रवेशनिर्गमनद्वारस्थानी येति । एवं प्राणापानभाषापर्याप्ती अपि एतेनैव निदर्शनेन साध्ये । दाष्टोन्तिकभेदात् तु दृष्टान्तभेदः। ततः सद्वारकेऽपि निष्पबे समनि अत्रासनमत्र शयनीयमत्र भुजिभूरिति स्थानशयनादिक्रियानिवर्तनमालोचयन्ति गेहिनः, नद्वन्मनःपर्याप्तिरपि हिताहितप्राप्तिपरिहारापेक्षालक्षणेति । एवमेताः षट् पर्याप्तीर्यनिवर्तयति तत् कर्म पर्याप्तिनाम, जापाकप्रक्षिप्तेनिवृत्तघटवत् । अपर्याप्तिनाम तु अनिष्पन्नध्वंस्यनिष्पनघटवदिति । एतदुक्तं भवति-यस्योदये पर्याप्तयो नासादयन्ति परिपूरिमतामपर्याप्त एव म्रियते, कदाचिद् वा विनाऽपि भवति यथा सम्मूछेनजमनुष्यादिरिति ।
भा०-स्थिरत्वनिर्वतक स्थिरनाम । 'विपरीतमस्थिरनामः॥
टी-स्थिरत्वनिवर्तकं स्थिरनाम. । यस्योदयाच्छरीरावयवानां स्थिरता भवति शिरोऽस्थिदन्तादीनां तत् स्थिरनाम । अस्थिरनामापि शरीरावयवानामेव । यदुदयादस्थिरता
१ ‘सूत्रा-' इति ड-पाठः । धनुदिनान्तर्गतो घ-पाठः । ३ ' स्थापयतीति' इति उ-पाठः । ४ 'हारोपेक्षा ' इति च-पाठः । ५.धृतघटवद' इति -पाठः । ६ ‘तदेतद्विपरीत.' इति ग-पाठः । 'शिरोमुखदन्ता' इति ग-पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org