SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ सूत्रं १३] स्वोपज्ञभाष्य-टीकालङ्कृतम् १६३ चलता मृदुता भवति कर्णत्वगादीनां तदस्थिरनामेति । तदेतद्विपरीतमस्थिरनामेत्यनेन । प्रतिपादितम् ॥ भा०-आदेयभावनिर्वर्तकं आदेयनाम । विपरीतमनादेयनाम ॥ टी०-गृहीतवाक्यत्वादादरोपजननहेतुतां प्रतिपद्यते उदयावलिकाप्रविष्टं सत् । एतदुक्तं भवति-यस्योदयेन नामकर्मोदयस्तेनोक्तं प्रमाणं क्रियते यत् किश्चिदपि दर्शनसमनन्तरमेव चाभ्युत्थानादि लोकाः समाचरन्तीत्येवंविधविपाकमादेयनाम । विपरीतमनादेयनाम । युक्तियुक्तमपि वचनं यदुदयान प्रमाणयन्ति लोकाः, न चाभ्युत्थानाधहणाहस्यापि कुर्वन्ति तदनादेयनाम । अथवा आदेयता-श्रद्धेयता दर्शनादेव यस्य भवति स च शरीरगुणो यस्य विपाकाद् भवति तदादेयनाम । तेद्विपरीतमनादेयनामेति ॥ भा०-यशोनिवर्तकं यशोनाम, तद्विपरीतमयशोनाम । टी०-यशः-प्रख्यातिः कीर्तिः लोके गुणोत्कीर्तना प्रशंसना यदुदयात् तद् यशोनाम । तद्विपरीतं अयशोनाम । दोपविषया प्रख्यातिरयशोनामेति ॥ भा०-तीर्थकरत्वनिर्वर्तकं तीर्थकरनाम ॥ टी०-तीर्थकरत्वेति । यस्य कर्मण उदयात् तीर्थ दर्शनज्ञानचरणलक्षणं प्रवर्तयति यतिगृहस्थधर्म च कथयति आक्षेपसंक्षेपसंवेगनिर्वेदद्वारेण भव्यजनसंसिद्धये सुरासुरमनुजपतिपूजितश्च भवति तत् तीर्थकरनामेति ॥ नामकर्मभेदाख्यानाय नामशब्दनिर्वचनमाचष्टे शब्दार्थप्रतीतये भा०--तांस्तान भावान् नामयतीति नाम । एवं सोत्तरभेदो नामकर्मभेदोऽनेकविधः प्रत्येतव्यः ॥ १२ ॥ टी०-तांस्तानिति । तांस्तानाभिजात्यादीन् (भावान ) नामयति-अभिमुखीकरोति संसारिणः प्रापयतीति नामोच्यते । एवमित्यादिनोपसंहरति नामकर्मप्रकृतिवक्तव्यं, उक्तेन प्रकारेण सोत्तरभेद इति । गतिश्चतुर्धा जातिः पञ्चप्रकारेत्यादिरुत्तरप्रकृतिभेदः सह तेन नामकर्मभेदोऽनेकविधोऽवसेय इति ॥ १२ ॥ सम्प्रति प्रकृतिवन्धं गोत्रस्याख्यातुमुपक्रमते गोत्रप्रकृती सूत्रम्-उच्चैनीचैश्च ॥ ८-१३॥ भा०-उच्चैर्गोत्रं नीचैर्गोत्रं च (विभेदं गोत्रम्) । तत्रोच्चैर्गोत्रं देशजातिकुलस्थानमानसत्कारैश्वयोंद्युत्कर्षनिवतकम् । विपरीतं नीचैगोत्रं चण्डालमुष्टिकव्याधमत्स्यबन्धदास्यादिनिर्वर्तकम् ॥ १३ ॥ १ 'प्रमीक्रियते ' इति च-पाठः । २' विपरीत.' इति ग-पाठः । ३ 'यशोभावनिर्व.' इति ग-पाठः । ४ धमुश्चिनान्तर्गतः पाठो घ-पुस्तके नास्ति । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004023
Book TitleTattvarthadhigam Sutram Part 02
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages396
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy