________________
१६४
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ८ टी०-यदुदयाज्जीवो गच्छत्युचैर्नीचैश्च जातीरुच्चावचास्तद् गोत्रं द्विविधम्-उच्चनींचैश्चेति उच्चैोत्रं नीचैर्गोत्रम् । चशब्दोऽवधारणार्थः । विभेदं द्विप्रकारमेवेति । तत्रोचे गोत्रमित्यादिना गोत्रकर्मणः कार्यमावेदयते । कार्यलिङ्गं हि कारणं तयोर्द्वयोः प्रकृत्योर्यदुर्गोत्रं तस्येदं कार्यमिति दर्शयति । आर्यदेशे मगधा-ऽङ्ग-वङ्ग कलिङ्गादिके सम्भवः जातिः । पितुरन्धयो हरिवंशेक्ष्वाकुप्रभृतिः । कुलं मातुरन्वयः । सोऽप्येवंप्रकार एवोग्रभोजादिलक्षणः। स्थानमिति । प्रभोः समीपे प्रत्यासन्ननिवेशित्वम् । मानः पूजा स्वहस्तेन ताम्बूलप्रदानादिः । सत्कारोऽभ्युत्थानासनाञ्जलिप्रग्रहादिः क्रियते तस्यासौ, उच्चैर्गोत्रादयः ऐश्वर्यमिभाश्वरथपदातिप्रभृतेः प्राभूत्यं उत्कर्षापकर्षभाक्त्वादनेकविधम् । एषां देशादिसम्भवानां निर्वर्तकमुच्चैर्गोत्रम् । विपरीतं नीचैर्गोत्रमिति । चण्डालाः प्रसिद्धा एव मातङ्गाः । चण्डालग्रहणं च प्रदर्शनं बहूनां वरुडकमुरुक्ककादीनाम् । मौष्टिकाः शौरिकादयः । व्याधा मृगयवो लुब्धकाः । मत्स्यबन्धाः प्राणातिपातहेतुभिरानायादिभिजीवन्ति ये। दासभावो दास्यं तनिर्वतकं नीचैर्गोत्रमिति । आदिशब्दादवस्करशोधकादिपरिग्रह इति ॥ १३ ॥ अष्टमप्रकृतेर्बन्धस्वरूपनिरूपणायाह
सूत्रम्-दानादीनाम् ॥ ८-१४॥ भा०-अन्तरायः पञ्चविधः। तद्यथा-दानस्यान्तरायः, लाभस्यान्तरायः, अन्तरायस्य प्रकृति- भोगस्यान्तरायः, उपभोगस्यान्तरायः, वीर्यस्यान्तराय इति पञ्चकत्वम् ॥१४॥
टी-दानादीनाम् एतावत् सूत्रम् । तत्र दानादीनामिति षष्ठी प्रतिविशिष्टसम्बन्धापेक्षा । प्रस्तुतश्चान्तरायो मूलप्रकृतिबन्धमाह-अन्तरायः पञ्चविध इति । तद्यथेत्यनेन पञ्चविधतां दर्शयति-दानस्येत्यादि । दान-देयम् । सत्यपि द्रव्ये न ददाति तद्धि कर्मोदितं दीयमानस्य कर्मणो विनम्-अन्तरायमन्तर्धानं करोतीति दानान्तरायः। द्रव्ये प्रतिग्राहके च सन्निहितेऽस्मै दत्तं महाफलमिति जोनानोऽपि दातव्यं न ददाति । एवं लाभभोगोपभोगवीर्यान्तरायेष्वपि योज्यम् । तथा कश्चिद् वदान्यः सर्वदा दानाकरः समस्तार्थिभ्यो यथाप्रार्थनं स्वशक्त्या निर्विशेषमूर्जितचेता यस्मै याचतेऽपि नो विसृजति प्रदेयमल्पमपि तस्य लाभान्तरायकर्मोदयः । तथा सकृदुपभुज्य यत् त्यज्यते पुनरुपभोगाक्षम माल्य-चन्दनाऽगुरुप्रभृति, तच्च सम्भवादपि यस्य कर्मण उदयाद् यो न भुङ्क्ते तस्य भोगान्तरायकर्मोदयः।
१ 'मुरुक्तकादीनाम्' इति च-पाठः । २ ' अन्तरायः ' इत्यधिको ग-पाठः । ३ ' मूलप्रकृतिबन्धितना(१)भिसम्बन्ध ' इति च-पाठः । ४ 'जॉनन्नपि ' इति च-पाठः । ५ ' मूञ्छित' इति ड-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org