________________
प्रस्तावना "सकया पायया चेव भणिईओ होति दोणि वा। सरमण्डलम्मि गिज्जते पसत्था इसिभासिया ॥"
___-अनुयोगद्वारे सू० १२७, १३१तमे पत्रे . एवं परिस्थित्यां सत्यां गीर्वाणगिरायां सिद्धान्तप्रणयनमनादिकालीनम् , यत् अनन्तानि तीर्थानि प्रवर्तितान्यधावधि । अतः केन प्रथममेवं कृतमिति प्रश्नस्य कोऽवकाशः । किञ्च श्रीमहावीरस्वामिसत्तायां श्रीइन्द्रभूतिप्रमुखैर्गणधरै रचितानि चतुर्दश पूर्वाणि विहायास्या हुण्डावसर्पिण्या अस्मिन्नरे गीर्वाणभाषामयः कः प्रथमो ग्रन्थ इति जिज्ञासातृप्त्यर्थं यथेष्टसाधनामामभावा, परन्तु वर्तमानकाले समुपलब्धं साहित्यमाश्रित्य तत्त्वार्थाधिगमसञ्ज्ञकमिदं शास्त्रं प्राथमिकं स्थानमलङ्करोतीति कथने न मनागपि सन्देहो वर्तते, सर्वेषां पूर्वाणामुच्छेदत्वात् ।
बालस्त्रीमन्दमूर्खानामप्युपकारिणीं प्राकृतभाषां परिहाय कस्माद् हेतोर्गीर्वाणगिराऽऽश्रयि सस्वार्थसूत्र-प्रशमरतिप्रभृतिग्रन्थग्रथनकलानर्तकीनाट्याचार्यैर्वाचकवर्यैरित्यपि प्रश्नः समुपजायेत, किन्तु तस्य सन्तोषकारकमुत्तरं दातुं नाहमलम् । वाचकवारिधिसत्तासमये संस्कृतभाषाया। प्राधान्यं, दर्शनान्तरीयसाहित्यस्य एतदभाषाद्वारा सुप्रचारस्यावलोकन, तेषां संस्कृतभाषाभाषिक्षेत्रेषु विहारः, तेषां ब्राह्मणजातिरित्यादिसम्भावनारूपप्रेरकवलेन तैस्तत्त्वार्थपत्रस्य स्वोपज्ञभाष्यपूर्वकस्य प्रणयनं कृतं संस्कृतभाषायामिति सम्भाव्यते।' १छाया प्राय उपरिवत् ।
भन्तिमाश्चतुर्दशपूर्वधराः श्रीस्थूलभद्राः, प्रान्तिमा दशपूर्वधराः श्रीवज्रस्वामिनः, सार्धनवपूर्वधराः श्रीभार्यरक्षितसूरयोऽन्त्याचकपूर्वविदः श्रीदेवर्द्धिगणिक्षमाश्रमणाः । श्रीवीरनिर्वाणात् वर्षसहस्र व्यतीते पूर्वविच्छेद इति भगवत्यां (श. २, उ. ८, सू. ६७८) निर्देशः । स चायम्
"बहीवे णं भंते | दीवे भारहे वासे इमीसे ओसप्पिणीए देवाणुप्पियाणं केवतियं कालं पुव्वगए अणराजिस्सति गोयमा। णं दीवे भारहे वासे इमीसे उ(ओ?)स्सप्पिणीए ममं एग वाससहस्सं पुव्वगए अणुसज्जिस्सति ।"
जम्बद्वीपे भदन्त । द्वीपे भारते वर्षेऽस्यामवसर्पिण्या देवानुप्रियाणां कियन्तं कालं पूर्वगतमनसंक्ष्यति । गौतम । द्वीपे भारते वर्षे ऽस्यामवसर्पिण्या ममैकं वर्षसहस्रं पूर्वगतमनुसंक्ष्यति ।। किश्च निन्नावतारितोऽप्युल्लेखो वरीवर्तिः
"वोलीणमि सहस्से, वरिसाणं वीरमोक्खगमणाउ । उत्तरवायगवसभे, पुव्वगयस्स भवे छेदो ॥ वरिससहस्से पुण्णे, तित्थोग्गालिऐं वद्धमाणस्स । नासि ही पुव्वगतं, अणुपरिवाडिएँ जं जस्स ॥" [व्यतीते सहा वर्षाणां वीरमोक्षगमतात् । उत्तरवाचकवृषभे पूर्वगतस्य भवेत् छेदः॥ वर्षसहने पूर्णे तीर्थोद्गालिते वर्धमानस्य ।
नाशि ही पूर्वगतमनुपरिपाटितो यद् यस्य ॥] ३ प्राकृतभाषायां ये साम्प्रदायिका विचारा सुबद्धा आसंस्ते गीर्वाणगिरायां सुप्रसन्नसङ्क्षिप्तसरलशुद्धशैल्या वाचकवर्यैः सफलं गुम्फिताः। अनेनानुमीयते यदुत वाचकवर्यसमयात् प्राक्कालीना जैनमुनिपुङ्गवाः संस्कृतभाषायां अन्यनिर्माणे न केवलं समर्था आसन् , किन्त्वेतस्यां दिशि सफलः प्रयासोऽपि तैः कृतः स्यातू ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org