________________
प्रस्तावना
" परब्रह्माकारं सकलजगदाकाररहितं
सरूपं नीरूपं सगुणमगुणं निर्विभु-विभुम् । विभिन्न सम्भिन्नं विगतमनसं साधुमनसं
पुराणं नव्यं चाधिहृदयमधीशं प्रणिदधे ॥" इह हि निःसीमसंसारपारावारनिमज्जनत्रस्तानामाधिव्याध्युपाधिग्रस्तानां परिस्फुरज्जन्मजरामरणमोहानां करालकलिकालकवलितशेमुषीसन्दोहानां सङितरुचीनां भव्यसत्त्वानां परोपकारसम्पादनमेव सर्वोत्तमा स्वार्थसिद्धिः सौजन्यसौशील्यसारल्यशेवधीनां सार्वसिद्धान्तसारपीयूषपानपीवराणां श्रीजिनेश्वरशासनप्रभावनाप्रभाऽऽविर्भावभास्कराणामिति मत्वा परोपकृतिकर्मकर्मठैः श्वेताम्बरपरम्परानुसारेण पञ्चशतप्रकरणप्रणेतृभिरप्रतिमप्रतिभामण्डलैर्वाचकाखण्डलैः श्रीउमास्वातीतिसुभगनामधेयैन केवलं सन्दृब्धस्तत्त्वार्थाधिगमसूत्रनामा व्यक्तविषयात्मको महामूल्यो ग्रन्थः, किन्तु सङ्कलितोऽयं भवसन्ततिदारिकाभिरशेषक्लेशनिराकारिकाभिरुपोद्धातरूपिकाभिः सम्बन्धकारिकाभिः, समलङ्कृतश्च गीर्वाणगीर्गुम्फितेन सूत्रार्थप्रदीपकेन सरलसरससुश्लिष्टस्वोपज्ञभाष्येणेति समवगम्यते प्रथमविभागगवेषकैः। अद्याद्ययावदनुद्धृतस्यास्यं प्रन्थस्य प्रस्तावना प्रस्तूयते प्रतिज्ञापालनार्थ मन्दमेधसाऽपि मया ।। अवतार्यते तावन्मीमांसाभूमिकायां प्रश्नोऽयं यत् प्रथमं केन जैनमुनिरत्नेन संस्कृतभाषायां सिद्धान्तप्रणयनमकारि । प्रत्येकतीर्थङ्करशासने द्वादशाङ्गी रच्यते गणधरनामकर्मोदयवर्तिभिर्वीजबुद्धिभिर्गणधरदेवैः । तत्र दृष्टिवादसञकं द्वादशाङ्गं प्रायो गीर्वाणगीगुम्फितं समस्ति । उक्तं च श्रीवर्धमानसूरिभिरवतरणरूपेण आचारदिनकरे निजप्रणयने___"मुत्तूण दिहिवायं कालियउक्वालियंगसिद्धतं ।
थीबालवायणत्थं पाययमुइयं जिणवरेहिं ॥" अनेन निरस्यते मतमिदं केषाश्चिद् यदुत श्रीवीरनिर्वाणसमयानन्तरमेव जैनैः संस्कृतभाषाज्ञानं सम्पादितम् । अपरञ्च एतन्निरसने निम्नलिखिते गाथे अप्युपयुक्ते
"सकया पागता चेव दुहा भणितीओ आहिया। सरमंडलम्मि गिजते पसत्था इसिभासिता ॥"
-स्थानाङ्गे सप्तमे स्थानके ३९४तमे पत्रे १ श्रीसिद्धसेनगणिवरैर्भाष्यकारिकेति नाम निरदेशि विंशतितमे पृष्ठे। २-३ छाया-मुक्त्वा दृष्टिवादं कालिकोत्कालिकाङ्गसिद्धान्तम् ।
स्त्रीबालवाचनार्थ प्राकृतमुदितं जिनवरैः॥ संस्कृता प्राकृता चैव द्विधा भणिती आहिते। स्वरमण्डले गीयते प्रशस्ते ऋषिभाषिते॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org