________________
तपोष्ट
सूर्व १९] स्वोपज्ञभाष्य-टीकालङ्कृतम्
२४३ जैनानां नास्त्येव मोक्ष इति । अत्रोच्यते-द्विविधः कर्मपरिपाकहेतुभंगउसका वद्भिक्ता-स्थितिक्षयस्तपश्च । तत्र प्रणिधानादिगमनमन्तरेण कर्मक्षयः स्थितिक्षयात । यथोक्तं (अ०८, १० १५-१८)-"आदितस्तिसृणामन्तरायस्य च त्रिंशत सागरोपमकोटीकोट्यः परा स्थितिः, सप्ततिर्मोहनीयस्य, नामगोत्रयोविंशतिः त्रयस्त्रिंशत् सागरोपमाण्यायुष्कस्य" इति च । स्फुटमिदं प्रणिधानमन्तरेण स्थितिक्षयात् कर्मविनाशः । तथा अपरं कर्मक्षपणार्थमहता दर्शितं तपो द्विविधम्-अभ्यन्तरं बाह्यं च । एकैकं चापि षइभेदम् । लोके परसमयेषु च यत् प्रथितं तत् तपो भवति बाह्यम् । अभ्यन्तरमप्रथितं कुशलजनेनैव तु ग्राझं तथैतदागोपालाङ्गनादिजनप्रसिद्धमशुभकर्मक्षपणकारीति । रात्रावभोजनं चैकभोजनं निष्प्रतिक्रियत्वं च रोमनखधारणं वृक्षमूलवीरासनादीनि अज्ञातपिण्डपातोत्थादप्रतिबद्धमटन
_ मामरणात् । अदर्शनधावनचीवरधारणभूकाष्ठशय्याच इत्येवमादयः कायस्य
लेशा ननु प्रसह्यन्ते सर्वैरपि पापण्डिभिः । अतस्तपस्तद् भवति सिद्धं दुःखसहनार्थितालक्षणं सुखेऽनादरस्तपः कष्टं देहत्यागो वीर्योद्यमौ च विषयेष्वसङ्गत्वं स्वात्मवशीकरणं च । प्रियधर्माणां च वीर्यसञ्जननं कायक्लेशस्य गुणाः प्रभावना ध्यानदाढ्यं च ।
__ ततश्चैवं प्रमाणयतो मायासूनवीयस्य 'आहेतानामात्मसन्तापनाशुपक्रमवि
" .. शेषवैयर्थ्यम्' (पृ० २४२) इति लोकविरोधिनी प्रतिज्ञा । लोके त्वविगानतोनशनादितपः प्रसिद्ध कर्मक्षयकृत् , तदपढुवानस्य परिस्फुट एव लोकविरोधः । तथा मध्याहादुपर्योदनादि न भोक्तव्यं बुभुक्षितेनापि । रात्रौ च कालोपस्थायिमिक्षुदर्शननिमित्तगर्भपातादीनां च दर्शनान्न भोक्तव्यं इति । कालविशेषाश्रयणेन नीरुजस्यापि अशनप्रतिषेध उक्तो वृक्षमूलासेवित्वनिष्प्रतिक्रियत्वादि च कायक्लेशलक्षणं तपः स्वागमेऽभ्युपेतमिति । अतस्तपोऽकिञ्चित्करमित्यागमविरोधः । तथा सर्वज्ञप्रणीतागमानुसारिलोचमौण्ड्यातापनोदिकः कायक्लेशः प्रतिविशिष्टेष्टफलः आगमचोदितत्वे सति कायक्लेशत्वाद् वृक्षमूलासेवित्वनिष्प्रतिक्रियादिवत् । अन्यजन्मकृतकर्मफलोपभोगित्वादिति यद्यन्यजन्मकृतं ददाति स्वतन्त्रसेवनोपभोक्तुः कश्चिद् व्यापारः, ततो द्रव्य-क्षेत्र-काल-भावनिरपेक्षत्वादसिद्धो हेतुः । नहि किश्चिदपि द्रव्यादिनिरपेक्षं फलमिष्टं जैनेन्द्रैर्येन कर्मणां विपाकोपशमावात्मचेष्टापूर्वको, न तु यादृच्छिकौ । अतः कथं व्यर्थता लोचमौण्ड्यादिक्रियायास्तदुदयहेतुकायाः । यथोक्तम्
" यदि भाग्यं फलहेतु-र्ननु विफलो हेतुनाऽप्यनुपदेशः। न्याय्या पाचयति नृणा-मीहा पुण्यं हि सापेक्षम् ॥१॥–आर्या
तपसः
१'दिकाय ' इति - पाठः । २ 'यतः कर्म ' इति -पाठः । ३ ' यादृच्छिकादिवत् ' इति च-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org