________________
२४४
तत्वार्थाधिगमसूत्रम्
उभयोपशम पुक्तौ, सापेक्षौ कर्मणोः शुभाशुभयोः । स्याद् विफलेहा सर्व, निरपेक्षं कर्म कल्पयतः ॥ २ ॥ - आर्या तस्मादवश्यभावा, अप्यर्थास्ते प्रयोगतः सिद्धाः ।
विभिर्भवति, कदाचिदनुन्नं सलिलमन्यैः ॥ ३ ॥ " आर्या
न
तस्मान्मुमुक्षोः श्राद्धस्य प्रवचनानुसारिवृत्तौ स्ववीर्येण कर्मोदयमाविर्भावयतो न व्यर्थ आतापनादिक्रियाकलापः कर्मनिर्जरणफलः ।। अथ न स्वतन्त्रमेव फलं ददाति कर्म, तर्हि व्यर्थमातापनादि तपः पूर्वकृतं तद् भवति कर्म । न च व्यर्थो यत्नः, पुरुषप्रयत्नेन विपच्यमानत्वात् । ततश्च नारकदृष्टान्तः साध्यशून्यः । नारकीयमपि कर्म [अन्य] जन्मान्तरोपाचं नरकभवापेक्षमुदयति । स्त्रपरिणामापेक्षं च न व्यर्थ, निर्जराफलत्वात् । एवं चातापनादिप्रयत्न - स्यानीश्वरत्वमसिद्धं, कर्मापगमहेतुत्वात् । यच्चोक्तं ( पृ० २४२ ) ' न च तत्पूर्वकृतकर्मजं दुःखं प्रयत्नानुविधायित्वात्' इति, तदप्यपेशलम् । यद् यत् प्रयत्नानुविधायि तत् तत् पूर्वकृतकर्मजं न भवति, यथा नर्तकी भ्रूभङ्गकर्मेति । खदिरशलाकाभीतः किल नश्यन्ननाकुलः सुगतः प्रयत्नवानपि पादे विद्धः शलाकया । तच्च पादवेधनकर्म प्रयत्नानुविधायि भवति पूर्वकृतकर्मजं चेत्यने कान्तः । 'इत एकनवते कल्पे, शत्तया मे पुरुषो हतः ।
46
तस्य कर्म विपाकेन पादे विद्धोऽस्मि भिक्षवः ! ॥ १॥”
"
[ अध्यायः ९
इति तत्सिद्धान्तः । नर्तकीभ्रूभङ्गोऽपि पूर्वकृतकर्म एव । भ्रूभङ्ग इति भ्रुवोर्विन्यासः - औदारिकशरीरावयवः । तच्चौदारिकं पूर्वकृतकर्मजं क्रियाक्रियावतोरभेदादिति साधनशून्यो दृष्टान्तः । न चकर्म क्रियैवार्हतानाम् । कर्म हि पौगलिकमिष्टं तच्च पूर्वमिति । अथातापनाद्युपक्रम जनितमेव तद् दुःखं, न पूर्वकृतकर्मजं, ततः कर्मक्षयाभाव इति यदुक्तं ( पृ०२४२, पं० १५) तदसम्बध्यकमामेव । मात् पूर्वकृतमेव कर्म द्रव्याद्यपेक्षमुदेति, न पुनरातापनादिक्रियया तदपूर्वमेवोत्पद्यत इत्यज्ञातजैन सिद्धान्तेन वैयावृत्यादि कल्पितं मूढेनेति । तच्चाशङ्कितमातापनादिप्रयत्नोऽपि पूर्वकर्मकृत एवेति, ततश्च पुरुषकाराभाव इत्येतदप्यज्ञान विजृम्भितम् । जीवकर्मणोरनादिसम्बन्धः । आत्मा च संसारी सकर्मकः कर्ता । क्रियत इति च कर्म, वीर्यान्तरायक्षयोपशमाच्च । वीर्यं प्रयस्न विशेषः आत्मनः करणजन्यः । करणानि च कर्तृव्यापारापेक्षाणि प्रयत्नमारभन्त इति । ईदृशि प्रक्रियायां कथं पुरुषकाराभावश्वोत्पद्यते ? । तथा अपरमुक्तमज्ञेन ( पृ० २४२, पं० २१) यदि पापस्य कर्मणो यो विपाकः सोऽपि कर्म, ततो मोक्षाभावः, पापक्षयासम्भवात्। यस्मात् किल तदप्यौपक्रमिकं कर्म तस्याप्यपरो विपाकस्तस्याप्यपर इति कुतो मोक्षः १ । अत्राप्यज्ञानमेवापराध्यति । कर्मपुद्गलानां विपाकोऽनुभावो रस विशेषः । स कर्मैव गुणगुणिनोः कथञ्चिदैक्यात् । तच्च कर्म
Jain Education International
१ नन्विद्दानोम भवति' इति च पाठः । २' प्रवृनेः' इति ङ-त्र-पाठः । ३ ' मानकमेव ' इति ज-पाठः ।
For Personal & Private Use Only
www.jainelibrary.org