________________
पूर्व १९] स्वोपज्ञभाष्य-टीकालङ्कृतम्
२९५ पकं परिशटति जीवप्रदेशेभ्यः, न हि ततोऽन्यत् कर्मोपादानमस्ति, कथः मोक्षामावः ।।न चार्य नियमः-पापस्य कर्मणः पापेनैव विपाकेन भवितव्यं कुशलस्य व कुशलेनैवेति, स्थित्यनुभावबन्धयोर्विपर्यासवचनात् । यथोक्तम्--
"मूलप्रकृत्यभिन्नाः, सक्रमयति गुणत उत्तराः प्रकृतीः। न त्वात्माऽमूर्तत्वा-दध्यवसोनप्रयोगेण ॥१॥-आर्या शिथिलयति दृढं बन्धं, शिथिलं द्रढयति च कर्म ननु जीवः । उत्कृष्टाश्च जघन्या, स्थितिर्विपर्यासयति चापि ॥ २॥-आर्या तारीकरण ताम्र-स्य शोषणस्तेमने मृदः क्रमशः।
वृक्षपरिपाचनं वा, काले तेधूपदृष्टान्ताः ॥३॥"-आर्या सङ्क्रमस्य तारीकरणं, स्थितेः शोषणस्तेमने, वृक्षपरिपाचनमित्युदीरणाः।
" अनुभावांश्च विपर्या-सयति तथैव प्रयोगतो जीवः । तीव्रत्वमन्दत्वावस्थासु प्रकृतिष्वभिन्नासु ॥४॥-आर्या यद्वद् वा मन्दं सत्क्षारी-क्रियते हरिद्रया चूर्णम् ।
वातातपादिभिश्व, क्षारं मन्दीक्रियेत यथा ॥ ५॥"-आर्या इति । यदप्युक्तं (पृ० २४२ ) असश्चेतिता कृतवन्धतो मोक्षाभावः इति तदप्ययुक्तम् । यदि सश्चेतितमेव शुभमशुभं वा बध्यते नासश्चेतितं, एवं तर्हि न कश्चिन्मिथ्यादृष्टिरस्ति । न हि साङ्खयः काणभुजो वो द्विजादिर्वा स्वं दर्शनं मिथ्येति सञ्चेत्य प्रतिपयते । सर्वोऽपि हि स्वं दर्शनं निश्चितमेव सम्यनित्यभ्युपगच्छति, न मिथ्येति सञ्चेतयति । अथैवमाशकेथा:विपरीताभिनिवेशात् तस्य मिथ्यादर्शनम् । तदेवं सति रज्जुबुद्धया छिन्दतः सर्पमवश्यम्भाविनी हिंसाप्राप्तिः, विपरीताभिनिवेशात् संसारमोचकयाज्ञिकगलाकार्तप्रभृतीनां च निमतां धर्मोज्यमेवेति पापमिति वा सञ्चेतनान्न पापं स्यात् । न हि ते अपुण्यमेव सञ्चेतयन्ति । अथ यथा तथा वा प्राणवधे विहिते पापं भवति, ततः सिद्धव हिंसा।नावश्यम् । यदि प्राणी च भवति प्राणिसंज्ञा च भवति वधकचित्तं वाऽस्योत्पद्यते वधितश्च भवति ततो हिंसेति । अथ ते हिंसामित्येवं सञ्चेतयन्ति संसारमोचकादयो भिक्षुरपि तर्हि सञ्चेतयितुं नियमेन जीववधो भवत्यारम्भ इति । यथोक्तम्
"भूकाष्ठाग्न्यपगोमय-बनवायुवनस्पतीन् पशून प्रेष्यान।
मत्वाऽऽरभमाणस्य, प्राणव्यपरोपणं नियतम् ॥ १॥-आर्या १ 'निगमः' इति उ-पाठः। २ — सानान्नयोगेन' इति हु-पाठः। ३ 'न तु' इति -पाठः । ४'वा द्विजो वा' इत्यधिको उ-पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org