________________
२४६ तत्त्वार्थाधिगमसूत्रम्
[अभ्यायः ९ आरम्भे सञ्चेतन-मस्त्येतेषां च न तु जिघांसायाम् । इति तदपि तुल्यमुभये-पामप्यन्याभिसन्धित्वात् ॥ २॥आर्या सञ्चेत्यहिंसकोऽतिनृ-शंसस्तेषां तथा तु नारम्भी।
पन्धोऽपि तदनुरूपो, बन्धविशेषो हि भाववशात् ॥ ३॥"--आर्या अजाननवमन्यमानो वा यः शोणितमुत्पादयति मायासूनोस्तस्यानन्तर्यकमबुंदबुद्धिस्वान समस्ति । न च भक्तिशून्यस्य बुद्धोध्यमिति तत्त्वतोऽशुद्धिरस्ति । यस्य चास्ति भक्तिः स उपासकः कथमुत्पादयेद बुद्धस्यामृक् । न च संशयितस्याश्रद्दधतश्च सञ्चेतन मिष्टम् । नो चेद पामारम्भेऽपि सर्वपाखण्डिनां भवेद् दोषः। यत् ते विदन्ति निर्ग्रन्थानां जीवाः किलेमे इति । आनन्तर्यकमेवं मातापित्रहतां वधेऽवार्य स्तूपभिदश्च तथैव चौर्याण्यनृताद्यकुशलानि यथोक्तेन चतुष्टयसंयोगेनेति । बालस्य पांसुमुष्टी राज्यं फलित इति वाऽस्ति बुद्धोक्तिः। न च पांसुष्वमत्वं व्यक्तम् । सञ्चेतयन्ति पांसून् रन्धनाद्यारम्भोपदेशित्वाच्च बुद्धस्य हिंसकत्वं प्राप्तं, न तु चेतयति स जन्तून् काष्ठाद्याश्रितकुन्थूद्देहिकापिपीलिकादीन नो चेन भवेत् स सर्वज्ञः यद्यसश्चेतितः कर्मबन्धो न भवति, ततः सर्व एव प्रयत्नो व्यर्थः स्यात् ।
"ई भाषादानो-त्सर्गस्थानशयनाशनादिषु च ।। यतनं व्यर्थ सर्व, प्रतिलिख्यसमीक्ष्यकरणादि ॥१॥-आर्या पात्रपरीक्षणमुदक-स्रावणमुपसम्पदादिनियमाच । भावप्रामाण्येन तु, बुद्धस्य भवन्त्यपार्थानि ॥२॥-आर्या शुभबुद्धथा शुभफलदं, यदि च शुभं कर्म तत् समारब्धम् ।
शुभबुद्धया विप्राणां, पश्वादिवधे कथमधर्मः ॥३॥"--आर्या यदप्युक्तं गन्धसमुद्गकवजन्तूनामापूर्णो लोकः । तदत्राहिंसकत्वं दुर्लभमिति । उक्तं च
"जीवव्याप्ते लोके, यतेरहिंसा कथं भवेत् कृत्स्ना ।
उदधिमवगाहमानः, कथं न सचट्टयेत् सलिलम् ? ॥१॥-आयो अत्रोच्यते" इत्येष विप्रलापो, यत्कायाः सूक्ष्मपरिणताः पञ्च । अप्रतिघातिन इष्टाः, स्कन्धप्रतिभेद उक्तश्च ॥२॥–आर्या अपि चाचित्ताः कायाः, प्रचुराः सन्तीह जीवनिमुक्ताः। स्याद् येषु यतेवृत्ति-निश्वासप्रभृतिचेष्टासु ॥ ३ ॥–आर्या
१:भिनिवेशसन्धित्वात् ' इति ग-पाठः। २ 'बुद्धिबुद्धत्वात् ' इति हु-पाठः। ग-पाठः। ४'वीर्याण्य' इति ग-पाठः। ५ 'श्रितं उद्देहिका' इति इ-पाठः।
३'वीयोस्नू' इति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org