________________
सूत्र १२ ] स्वोपज्ञभाष्य-टीकालङ्कृतम्
१५७ उपघातनामस्वरूपाख्यानायाहभा०-शरीराङ्गोपाङ्गोपचातकमुपघातगम ।
टी-शरीराङ्गोपाङ्गोपघातकमिति । शरीराङ्गानामुपाङ्गानां च यथोक्तानां यस्य कर्मण उदयात् परैरनेकधोपधातः क्रियते तदुपघातनाम । मतान्तरं वाशब्देन प्रतिपादयति
भा०--स्वपराक्रमविजयाद्युपघातजनकं वा॥
दी-केचिदेवमुपधातजनकं वा केचिदुपघातनाम व्याचक्षते सूरयः पराक्रम:प्राणो वीर्य, स्वो-निजः पराक्रमः स्वपराक्रमः तस्योपघातं जनयति, समर्थवपुषोऽपि निर्वीर्यतामापादयति स्वविजयं चोपहन्ति । विजितेऽप्यन्यस्मिन् नैव विजित इति व्यपदेशहेतुतां प्रतिपद्यत इति । आदिग्रहणादन्यदपि यदुद्भूतं कर्म तत् तस्योदयेनोपहन्यत इति ।
पराघातस्वरूपं निरूपयतिभा०-परत्रासप्रतिघातादिजनक पराघातनाम ॥
दी-परत्रासेत्यादि । यस्य कर्मण उदयात् कश्चिद् दर्शनमात्रेणैवोजस्वी वाक्सौष्ठवेनान्यां सभामप्यभिगतः सभ्यानामपि त्रासमापादयति परप्रतिभाप्रविघातं वा करोति तत् पराघातनाम । आदिग्रहणात् संक्षोभदृष्टिगतिस्तम्भनपरिग्रहः ॥
आतपनामनिरूपणायाहभा०-आतपसामध्यजनकमातपनाम ॥
टी-आतपसामर्थ्यजनकमिति । आतपतीत्यातपः । कर्तर्यच् । आतप्यते वाऽनेनेति आतपः । पुंसि संज्ञायां घः। तस्यातपस्य सामर्थ्य-शक्तिरतिशयो येन कर्मणोदितेन जेन्यते तदातपनाम । आङो मयोदावचनत्वात् सहस्रांशुमण्डलपृथिवीकायपरिणाम एव तद् विपच्यते, नान्यत्रेति ॥
उद्दयोतनामस्वरूपप्रतिपादनायाहभा०-प्रकाशसामर्थ्यजनकमुद्दयोतनाम ॥
टी-प्रकाशसामर्थ्यजनकमुहयोतनामेति । उद्दयोतनमुद्दपोत:-प्रकाशोऽनुष्णः खद्योतकादिप्रभावः । सप्तार्चिःसवितृमण्डलासम्भवि, यस्माद रुष्णः स्पर्शो लोहित रूपम् , अतः प्रकाशस्य सामर्थ्यम्-अतिशयं जनयति यत् तदुइयोतनाम ।
उच्छवासनामस्वरूपमाचष्टेभा०-प्राणापानपुद्गलग्रहणसामर्थ्यजनकमुच्छासनाम ॥
१' उत्पत्तेरनेकधा ' इति ङ-पाठः । २ 'प्राणीवीर्याख्यो' इति -पाठः । ३ 'कर्तव्यं च ' इति अ-पाठः । ४'हन्येत ' इति अ-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org