________________
किञ्चिद् विज्ञापनम्
चिरत्नग्रन्थरत्नगवेषकाः ! सानन्दं निवेदयामि तत्रभवद्भ्यः शेमुषीशालिभ्यो यदुत बार्थोल्पसूत्रस्य श्रीतत्त्वार्थाधिगमसूत्रेतिनामधेयस्यास्य ग्रन्थरत्नस्य प्रथमविभागप्रस्तावनाप्रान्ते द्वितीयं विभागं यथामति संशोध्य धीधन करकमले समर्पयिष्यामीति याऽभिलाषा प्रदर्शिता मया तत्पूर्तिः सञ्जाता सम्प्रति देवगुरुकृपाकटाक्षेण । परं न चार्य मे प्रयासो विघ्नविकलः, यतो लघिष्ठभ्रातुः खुशमनलालस्य वर्षद्वय पर्यन्तानारोग्येण न केवलं नानाकदर्थना मम सञ्जाताः, किन्तु तत्परलोकगमनेन चिरस्थायी मर्मस्पर्शी उद्वेगश्वानुभूतो मया ।
किञ्च 'श्रीमोहनलालजीजैन सेन्ट्रललाइब्रेरी' सत्कक -संज्ञकप्रत्याधारेणाब्धे अद्यावध्यप्रकाशितैतद्विभागमुद्राप्यमाणपुस्तिकाकर्मणि गरीयांसं तापं समन्वभवम्, अशुद्धि पाठपातादिप्राचुर्यात् । श्रीयुतजीवनचन्द्रद्वारा प्राप्ता श्रीविजयसिद्धिमूरिवरसत्का ख-प्रतिरपि तद्दूरीकरणे न प्रभविष्णुरभूत् । अतः प्रायः सार्धपष्टाध्यायात् गेतिसंज्ञा निर्धारितस्या मदीयजन्मभूमि' सूर्यपुरस्थ 'जैनानन्दपुस्तकालय' प्रत्या आधारेण मुद्राप्यमाणा पुस्तिका कथमपि सम्पूर्णतामा निन्ये ।
एवं महता कष्टेन विहितायां पुस्तिकायां 'एशियाटिक सोसायटी ऑफ़ बेन्गॉल ' इति संज्ञया सुप्रसिद्धसंस्था मुद्रापितस्य घ-संज्ञितस्य पुस्तकस्य साहाय्येन सूत्रभाष्यपाठानां संशोधनसमये महती चिन्ताऽऽपतिता यत् किं करणीयं शेषसन्दिग्धस्थलपरिस्खलनापरिमार्जने प्रकाशक महाशयाय निवेदितेऽस्मिन् सङ्कटे तेन कतिपयमासान्तरे कस्याश्चन प्रतेः प्रतिलेखो मह्यं प्रददे । तत्र प्रतिलेखकस्य प्रमादात् लिपेरनभिज्ञानत्वाच्च शुद्धा अपि पाठा अशुद्धीभूता दृष्टिगोचरमागताः, तथापि किमपि साहाय्यमलेभि ङ -संज्ञकया नया प्रत्या, अतो मूलप्रतिप्रापणे प्रयत्नोऽकारि किन्तु स न सफलीबभूव ।
एवं पुस्तकपञ्चकसाहाय्येन कथमपि निष्पादिता मुद्रणालयोचितपुस्तिका यन्त्रालये एव प्रेषिता । अत्रायं हेतुर्यद् ग्रामानुग्रामविहारकरणप्रवृत्तानामागमोद्धारक - व्याख्याप्रज्ञजैनाचार्य श्री आनन्दसागरसूरिवराणामेकत्र स्थिरताऽभावात् तत्सविधे पुस्तिकाप्रेषणे नावकाशः, विलम्बकरणं तु दुःसहं द्वितीय विभागपाठनतत्परजनानां वारंवार पृच्छनादिस्वात् ।
सत्यामप्येवंविधपरिस्थित्यां ग्रन्थस्यास्य द्वितीयवेलाशोधनपत्राणि (revised proofs ) तु मया प्रहितानि जैनागमप्रसिद्धि सेवाहेवा किनां सार्वसिद्धान्तप्रवीणानां श्रीमतां आनन्द
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org