________________
सूत्र ६ ]
स्वोपज्ञभष्य-टीकालङ्कृतम्
भा०- - बालस्वभावचिन्तनाच्च परोक्षप्रत्यक्षाक्रोशताडनमारणधर्मभ्रंशीनामुत्तरोत्तररक्षार्थम् । बाल इति मूढमाह । परोक्षमाक्रोशति वाले क्षमितव्यमेव । एवंस्वभावा हि बाला भवन्ति । दिष्ट्या च मां परोक्षमाक्रोशति न प्रत्यक्षमिति लाभ एव मन्तव्यः । प्रत्यक्षमप्याक्रोशति बाले क्षमितव्यम् । विद्यत एतद् बालेषु । दिष्टया च मां प्रत्यक्षमाक्रोशति, न ताडयति, एतदप्यस्ति बालेष्विति लाभ एव मन्तव्यः | ताडयत्यपि बाले क्षमितव्यम् । एवंस्वभावा हि बाला भवन्ति । दिष्टया च मां ताडयति, न प्राणैर्वियोजयतीति । एतदपि विद्यते बालेष्विति । प्राणैर्वियोजयत्यपि बाले क्षमितव्यम् । दिष्टया च मां प्राणैर्वियोजयति, न धर्माद् भ्रंशयतीति क्षमितव्यम् । एतदपि विद्यते बालेष्विति लाभ एव मन्तव्यः । किञ्चान्यत -
टी० 91 - बालस्वभावेत्यादि । बालशब्दोऽवैधेयवचनः, न वयोवस्थावाची । तथैव चाह भाष्यकृत् । बालः मूढो निर्विवेक इत्यर्थः । तस्य चैष एव स्वभावो मूढत्वात् यत्किञ्चनभाषित्वं तत्स्वभावालोचनमन्वेषणं, अतस्तचिन्तनाच्च क्षमितव्यमेव । चशब्दः समुच्चयार्थः । उत्तरोत्तररक्षार्थमिति परोक्षाक्रोशात् प्रत्यक्षाक्रोशनमुत्तरं, प्रत्यक्षाक्रोशनात् ताडनं, ताडनान्मारणं, मारणाद् धर्मभ्रंशनं, परोक्षाक्रोशेन क्षमायां प्रत्यक्षाक्रोशनं रक्षितं भवति । एवमुत्तरत्रापि, अस्ति हि कियत्यपि मन्दाक्षमा क्रोष्टुर्मयि ततः परोक्षमाक्रोशति, न प्रत्यक्षम् । दिष्टयेति तृतीयैकवचनप्रतिरूपको निपातः प्रसादवचनः प्रशंसावचनो वा । अयमेव च प्रसादो मम - इदमेव वा साधु यन्मां परोक्षमाक्रोशति न प्रत्यक्षमित्येष एव लाभः । लौकिकः कः खलु अयमाभाणकः - अयमेव ( मे ) लाभ इति, एवं सर्वत्र व्याख्या । किञ्चान्यदालम्बनमाश्रित्य क्षमा कार्या तदभिधीयते
भा० – स्वकृतकर्मफलाभ्यागमाच्च । स्वकृतकर्मफलाभ्यागमोऽयं मम, निमितमात्रं पर इति क्षमितव्यम् । किञ्चान्यत्
१९१
डी० – स्वकृतफलाभ्यागमाच्चेति । जन्मान्तरोपात्तस्य कर्मणः स्वकृतस्यायं विपाको मम यदाक्रोशति ताडयति वा परः, स तु निमित्तमात्रं कर्मोदयस्य । यस्माद् द्रव्यक्षेत्र कालभवभावापेक्षः कर्मणामुदयो भगवन्निराख्यातः । स्वकृतं च कर्मानुभवितव्यमवश्यन्तया निकाचितं, तपसा वा क्षपणीयमिति । किश्चान्यदालम्बनं क्षन्तुमनसा विधातव्यमित्याह -
भा०—क्षमागुणांश्चानायासादीननुस्मृत्य क्षमितव्यमेवेति क्षमाधर्मः ॥ १ ॥
१ 'विधेयं' इति च पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org