________________
१९० तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः १ टी-सत् कथं क्षमितव्यमिति चेत् । क्षमितव्यमिति भावे कृत्यः । क्षमाऽपि भाव एव । अतः सामान्यमात्रमाश्रित्य तच्छब्दप्रयोगः । वाक्यार्थस्तु-सा-क्षमा कथं-केन प्रकारेण कर्तव्या १ । एवं मन्यते दुर्भञ्जः क्रोधवेगो मदाकुलस्येव करिणः । चेच्छब्दः शङ्कायाः सूचकः । एवमाशङ्किते आशङ्काव्युदासचिकीर्षया आह-उच्यत इति । क्रोधनिमित्तस्यात्मनि भावाभावचिन्तनात् । भावः सद्भावोऽस्तित्वं तचिन्तनात् तदुपयोगाव उभयथाऽपि क्रोधो न घटत इति । येन निमित्तेन परप्रयुक्तेनायं मम कोप उत्पद्यते तनिमित्तं मयि किं सत्यमेवास्ति उताभ्याख्याति परः १, यदि सत्यमस्त्येतनिमित्तं किं कोपेन? कृतं खलु मयेदं, नाणीयोऽपि परस्यात्राऽऽगः सद्भूतमर्थ प्रकाशयतः, स्वकृतं हि दुश्चरितं तपतीत्येवं चिन्तयेत् । एतदेवाह-भावचिन्तनात् । तावद् विद्यन्ते मय्येते दोषाः किमत्रासौ मिथ्याब्रवीतीति क्षमितव्यं, तथाऽभावचिन्तनादपि क्षमितव्यमित्यादि, ये दोषाः परेणोपक्षिप्यन्ते मयि नैते विद्यन्ते । अभाव एव, परस्त्वज्ञानादेवमभिधत्ते । अज्ञात्वैव दोषानुपक्षिपतीत्यर्थः। एवं च निरपराधमात्मानमवेत्य क्षन्तव्यमेव ॥ किश्चान्यदालम्बनं सहिष्णुत्वे इत्याह
भा०-परैः प्रयुक्तस्य क्रोधनिमित्तस्यात्मनि भावचिन्तनाभावचिन्तनांच क्षमितव्यम् । भावचिन्तनात् तावद् विद्यन्ते मयि एते दोषाः किमत्रासो मिथ्या ब्रवीतीति क्षमितव्यम् । अभावचिन्तनादपि क्षमितव्यम् , नैते विद्यन्ते मयि दोषा यानज्ञानादसी ब्रवीतीति क्षमितव्यम् । किश्चान्यत् ॥
टी-गतार्थमेवेदं भाष्यम् । क्षमाकरणे अन्यान्या- भा०-क्रोधदोषचिन्तनाच्च क्षमितव्यम् । क्रुद्धस्य हि विद्वेषा___ लम्बनानि सादनस्मृतिभ्रंशव्रतलोपायो दोषा भवन्तीति । किश्चान्यत्॥
टी-क्रोधदोषचिन्तनाचेत्यादि । क्रुद्धः कषायपरिणतो विद्वेषी कर्म बनाति, परं वा निहन्ति व्यापादयति वा। अतः प्राणातिपातनिवृत्तिव्रतलोप: स्यात् , गुरूनासादयेदअधिक्षिपेत् , अतो ज्ञानादिनिर्वाणसाधनपरिहाणिरवश्यंभाविनी । क्रद्धो वा भ्रष्टस्मृतिको मृषाऽपि भाषेत, विस्मृतप्रव्रज्याप्रतिपत्तिः परेणादत्तमप्याददीत, द्वेषात् परपाखण्डिनीषु ब्रह्मव्रतभेगमप्यासेवेत। तथा प्रद्विष्टः सहायबुद्धया गृहस्थेष्वविरतेषु मूर्छामपि कुर्यात् । आदिग्रहणाद् उत्तरगुणभङ्गमप्याचरेत् कारट्टक(करटुक?)भक्तालाभे मासक्षपकवत् ॥ किश्चान्य. दालम्बनं क्षान्तावित्याह
१'अज्ञाच्चैव' इति ग-च-पाठः। २ 'नाद्वा' इति घ-पाठः।। ३ 'दपि नैते मवि' इति ग-पाठः । ४ भवन्तीति' इति घ-पाठः। ५'भगना 'इति ग-पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org