________________
सूत्रं ६ ] स्वोपनभाष्य-टीकालङ्कृतम्
१८९ "न्यासादानसमित्या व्युत्सर्गे चापि वर्णिता समितिः । सूत्रोक्तेन (च) विधिना व्युत्सृजतोऽर्थे प्रतिष्ठाप्यम् ॥१॥" एवं साधोर्नित्यं यतमानस्याप्रमत्तयोगस्य ।।
मिथ्यात्वाविरतिप्रत्ययं निरुद्धं भवति कर्म ॥२॥" ॥५॥ अत्राह–उक्त समितिगुप्तीनां संवरहेतुत्वम् । अधुना को धर्मः संवरस्य कारणम् १ इति वक्तव्यम् । साध्वगारिधर्मभेदाहितसन्देहस्य प्रश्नः। उच्यते-सत्यप्यविशेषाभिधाने न पुण्यकर्म धर्मः, किं तर्हि ?, संवरापादनसामर्थ्य निमित्तं यो धर्मः स उच्यते ।
व सूत्रम्-उत्तमः क्षमा-मार्दवा-ऽऽर्जव-शौच-सत्य-संयमदशविधता तपस्त्यागा-ऽऽकिञ्चन्य-ब्रह्मचर्याणि धर्मः ॥ ९-६ ॥
टी–उत्तमग्रहणं अगारिधर्मव्यवच्छेदार्थम् । उत्तमो धर्मः प्रकर्षयोगात् । क्षमादयो हि उत्तमविशेषणविशिष्टास्तादृशाश्थागारिणो न सन्ति । यतः सर्वावस्थां अनगाराः क्षमन्ते, सकलमदस्थाननिग्राहिणः शाठयरहिताः सन्तोषामृततृप्ताः सत्यवादिनः संयमिनः तपस्विनो यथावद् दातारः कनकादिकिञ्चनरहिताः सर्वप्रकारं ब्रह्म बिभ्रतीति ॥न त्वेवं जातुचिद् गृहिणां क्षमादयः प्रकर्षभाजो भवन्ति । क्षमादयः कृतद्वन्द्वाः प्रथमाबहुवचननिर्दिष्टाः समुदिता एवोत्तमो धर्मः । एष च क्षमादिसमुदयः संवरं धारयति करोति यतस्ततो धर्मः। संवरार्थ चात्मना धार्यत इति धर्मः।
एतावन्ति धर्माङ्गानि तनिष्पादितश्च धर्म इति दर्शयतिभा०—इत्येष दशविंधोऽनगारधर्म उत्तमगुणप्रकर्षयुक्तो भवति ॥
टी०-एवमेष दशप्रकारो यतिधर्मः । उत्तमा गुणा मूलोत्तराख्यास्तेषां प्रकर्षःपराकाष्ठा तद्युक्तोऽनगाराणां धर्मो भवति ॥ ..
भा०-तत्र क्षमा तितिक्षा सहिष्णुत्वं क्रोधनिग्रह इत्यनटी०-भत्र क्षमेत्यादिना विवृणोति । उत्तमत्वं क्षमेति क्षमणं-सहनं परिणाम आत्मनः शक्तिमतः । अशक्तस्य वा प्रतीकारानुष्ठाने तां पर्यायशब्दैराचष्टे । तितिक्षा शान्तिः। सहिष्णुत्वं सहनशीलत्वम् । क्रोधनिग्रहः क्रोधस्योदयनिरोधः, उदितस्य वा विवेकवलेन निष्फलताऽऽपादनम् । एवमेतेऽनन्तरवाचिनः शब्दाः क्षमामेवाभिदधति ।
भाष्यकारस्तु स्वयमेवाशक्याह
भा०–तत् कथं क्षमितव्यमिति चेदुच्यते-क्रोधनिमित्तस्यात्मनि भावाभावचिन्तनात् ॥
क्षमायाः पर्यायाः न्तरम् ॥
१'दृशागारिणि ' इति ग-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org