________________
१८८ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ९ टी०-अन्नपानेत्यादि। अन्नं-अशन-खाद्य-स्वाद्यभेदम् । पानं आरनालतन्दुलक्षालनाद्युद्गमादिदोषपरिशुद्धम् । तथा रजोहरणं समुखवसनम् । पात्रद्वयम् । चोलपट्टकादि चीवरम् । आदिग्रहणाच्चतुर्दशविधोऽप्युपधिः स्थविरकल्पयोग्यो जिनकल्पयोग्यश्च सहौपग्रहिकेण ग्राह्यः। धर्मसाधनानामिति । श्रुतचरणधर्मसाधकानामित्यर्थः, साक्षात् पारम्पर्येण च । न हि पात्राद्यन्तरेण महाव्रतसंरक्षणं कर्तुं शक्यम् । एवमाहारोपकरणविपयामेपणां प्रतिपाद्य प्रतिश्रयैषणाभिधानायाह-आश्रयः शय्या। साऽप्युद्गमादिदोषरहितैव परिभोग्या । चशब्दः समुचितौ । तत्र षोडश आधाकमोदय उद्गमदोषाः । उत्पादनादोषाः षोडशैव धाच्यादयः । दशैषणादोषाः शङ्कितादयः । एतदोषपरिहारेणान्नपानादिग्रहणमेषणासमितिः ।
"उत्पादनोद्गमैषणधुमाङ्गारप्रमाणकारणतः।
संयोजनाच पिण्डं शोधयतामेषणासमितिः ॥१॥" आदाननिक्षेपसमितिस्वरूपविवक्षयाह
भा०-रजोहरणपात्रचीवरादीनां पीठफलकादीनां चावश्यकार्थ निरीक्ष्य प्रमृज्य चादाननिक्षेपौ आदाननिक्षेपणासमितिः ॥
टी-रजोहरणेत्यादि । रजोहरणपात्रचीवरादीनामिति चतुर्दशविधोपधिग्रहणं द्वादशविधोपधिपरिग्रहः, पञ्चविंशतिविधोपधिग्रहः, पीठफलकादीनामिति वा शेषौपग्रहिकोपकरणसङ्ग्रहणमावश्यकार्थमित्यवश्यन्तया वर्षासु पीठफलकादिग्रहः, कदाचिद्धेमन्तग्रीप्मयोरपि कचिदनूपविषये जलकणिकाकुलायां भूमावेवं द्विविधमप्युपछि स्थिरतरमभिसमीक्ष्य प्रमूज्य च रजोहत्या आदाननिक्षेपी कर्तव्यावित्यादाननिक्षेपणासमितिः। आह च
"न्यासाधिकरणदोषान् परिहत्य दयापरस्य निक्षिपतः।
न्यासे समितिरथादाने च तथैवाददानस्य ॥१॥" उत्सर्गसमितिस्वरूपकथनायाह
भा०-स्थण्डिले स्थावरजङ्गमजन्तुवर्जिते निरीक्ष्य प्रमृज्य च मूत्रपुरीषादीनामुत्सर्ग उत्सर्गसमितिरिति ॥५॥
टी-स्थण्डिल इत्यादि । स्थानदानात् स्थण्डिलमुज्झितव्यवस्तुयोग्यो भूप्रदेशः। कीदृक् पुनस्तदवकाशं ददातीत्याह-स्थावरजङ्गमजन्तुवर्जितम् । तत्र स्थावराः संचित्ता मिश्राश्च पृथिव्यादयः पञ्च । द्वीन्द्रियादयो जङ्गमाः। तद्वर्जिते निरीक्ष्य चक्षुषोपयुज्य प्रमृज्य च रजोहत्या वस्त्रपाखेलमलभक्तपानमूत्रपुरीषादीनामुत्सर्ग-उज्झनमुत्सर्गस. मितिः। इतिशब्दः परिसमाप्तिव वनः । आह च---
२'परिग्रहः' इति छ-पाठः। ३ 'असचित्ता' इति च-पाठः । ४ 'लेखमाल
१ 'ग्रहणं' इति छ-पाठः। भक' इति ग-च-पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org