________________
सूत्रं ५] स्वोपज्ञभाष्य-टीकालङ्कृतम्
१८७ "जो य सच्चा अवत्तव्वा, सच्चामोसा य जा मुसा। जा य बुद्धेहिं नाइण्णा, न तं भासिज्ज पण्णवं ॥१॥"
-दशवैकालिके ( अ० ७, उ० २, सू० २) सम्यगेपणा-गवेषणमागमविधिना पिण्डादीनाम् । सम्यगादाननिक्षेपौ प्रत्युपेक्षाप्रमार्जनपूर्वको । सम्यगुत्सर्गः स्थण्डिले व्यपगतप्राणिके । इतिशब्दः स्वरूपप्रतिपादनार्थः । एवंस्वरूपाः पश्चैव समितयः । तदेव स्वरूप प्रपश्चयति-तत्रेयादि । तत्र-तासु समितिष्वीर्यासमितिरित्थरूपा आवश्यकोयैवेति अवश्यकार्यमवश्यं कर्तव्यं यदागमचोदितं प्रयोजन विहारादिभूगमनं तदेव भूयः स्पष्टयति-संयमार्थमिति । संयमः मतदशभेदः । तदेव चावश्यकमवश्यंतया कर्तव्यम् । सर्वत इति सर्वत्र युगप्रमिते भूप्रदेशे, पादानादारभ्य यावद् युगमात्रं तावनिरीक्षणेत्यर्थः। युक्त आयुक्तस्तस्यैवं चेष्टमानस्य शनैः शनैः-मन्दं गतिभेदमकुर्वतोऽन्यासश्चरणयोराचरत ईर्यासमितिः । आह च
" उपयोगोद्योतालम्बनमार्गविशुद्धिभियंतेश्वरतः ।
सूत्रोदितेन विधिना भवतीर्यासमितिरनवद्या ॥१॥" सम्प्रति भाषासमितिनिरूपणायाहभा०—हितमितासन्दिग्धानवद्यार्थनियतभाषणं भाषासमितिः ॥
री-हितमितेत्यादि । आत्मने परस्मै हितमायत्यामुपकारकं मुखवसनाच्छादितास्यता, नातिबहु प्रयोजनमात्रसाधकं मितं, असन्दिग्धं सूक्तम् अर्थवर्णप्रतिपत्तौ वा न सन्देहकारि निरवद्यार्थमनुपघातक षण्णां जीवकायानां एवंविधं च नियतं सर्वदैव भाषणं भाषासमितिः। आह च
" त्यक्तानृतादिदोषं सत्यमसत्यानृतं च निरवद्यम् ।
सूत्रानुयायि वदतो भाषासमितिर्भवति साधोः ॥ १॥" एषणासमितिस्वरूपावधारणायाह
भा०-अमपानरजोहरणपात्रचीवरादीनां धर्मसाधनानामाश्रयस्य चोदमोत्पादनैषणादोषवर्जनमेषणासमितिः ॥
१ छाया
या च सत्याऽवक्तव्या सत्यामृषा च या मृषा।
याच बुद्धरनाचरिता नेमा भाषेत प्रज्ञावान् ॥ २ 'रूपाश्रयस्य काये.' इति च-पाठः । ३ 'आवश्यकायैवेत्या ' इति ग-पाठः । ४ 'विदितं ' इति उ-पाठः । ५ 'युगप्रतीते भूप्रदेशे' इति ग-च-पाठः । ६ ' त्यक्त्वा ' इति च-पाठः । ७ 'नुवीचि ' इति च-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org