SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ १८६ तत्वार्थाधिगमसूत्रम् (अध्यायः ९ " तद्गुणपरिशुद्धयर्थं भिक्षोर्गुप्तीर्जगाद तिस्रोऽर्हन् । चेष्टितुकामस्य पुनः समितीः प्राजिज्ञपत् पञ्च ॥१॥" इति ॥ पञ्चविधत्वं सूत्रम्-ईर्या-भाषै-षणा-ऽऽदाननिक्षेपो-त्सर्गाःसमितयः९.५ टी-अनन्तरसूत्रात् सम्यग्ग्रहणमनुवर्तते, तत् प्रत्येकमभिसम्बन्धनीय समितिग्रहणं च । ईरणमिर्या-गतिपरिणामः। सम्यगागमानुसारिणी गतिः ईयोसमितिः । समितिरिति तान्त्रिकी संज्ञा पञ्चसु चेष्टासु । अथवा नानुवर्तते सम्यग्ग्रहणम् । समितिरिति समुपसर्गः प्रशंसार्थः । प्रशस्ता-इति चेष्टा सर्ववित्प्रवचनानुसारेण प्राशस्त्यार्था । एवं भाषणं भाषा तद्विषया चेष्टा (भाषा)समितिः। एषणमेषो-गवेषणं तं करोतीति णिच तत्र स्त्रीलिङ्गे भावे युच् एषणा, यथागममाहारादेरन्वेषणमेषणासमितिः । आदान-ग्रहणं, निक्षेपो-न्यासः स्थापनं तयोः । समितिः-प्रावचनेन विधिना अनुगता आदाननिक्षेपसमितिः । उत्सर्जनमुत्सर्गः । उत्सर्जनमाहारोपधिशय्योचारादेर्भगवद्वचनापेक्षमुत्सर्गसमितिः । ईर्यादयः कृतद्वन्द्वाः समितिशब्दसमानाधिकरणा इति । अमुमेवार्थ भाष्येण स्फुटयति भा०-सम्यगीर्या सम्यग्भाषा सम्यगेषणा सम्यगादाननिक्षेपौ सम्यगुत्सर्ग इति पश्च समितयः । तत्रावश्यकायैव संयमार्थ सर्वतो युगमात्रनिरीक्षणायुक्तस्य शनैयस्तपदा गतिरीयोसमितिः॥ टी-सभ्यगीर्येत्यादिना, सम्यग्-आगमपूर्विका ईर्या-गमनमात्मपरबाधापरिहारेण। यथोक्तं (दशवैकालिके अ० ५, उ० १, सू० ३-४) " पुरओ जुगमायाए, पेहमाणो महिं चरे । वर्जितो बीयहरियाई, पाणे य दगमट्टियं ॥१॥" ओवायं विसमं खा', विज्जलं परिवजए। संकमेण न गच्छिज्जा, विजमाणे परकमे ॥२॥" सम्यग्भाषाऽप्यागमानुवर्तिनी - १'प्रतिष्ठा' इति ग-पाठः । २ छाया पुरतो युगमात्रया प्रेक्षमाणो महीं चरेत् । वर्जयन् बीजहरितानि प्राणितश्चोदकं मृत्तिकाम् ॥ १ ॥ अवमातं विषमं स्थाणुं विजल (सकदैम) परिवर्जयेत् । संक्रमेण (अस्थिरेण) न गच्छेत् विद्यमाने पराक्रमे (स्थिरे) ॥ २ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004023
Book TitleTattvarthadhigam Sutram Part 02
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages396
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy