________________
५८
तार्थाधिगमसूत्रम्
[ अध्यायः ७
र्यायः । करुणा घृणाऽनुकम्पा दया कृपा दीनानुग्रह इत्यनर्थान्तरम् । दीना दुःखिताः शारीरमानसैर्दुःखैरभिभूताः ।।
भा०- - तन्महामोहाभिभूतेषु मतिश्रुतविभङ्गाज्ञानपरिगतेषु विषयतग्निना दन्दश्यमानमानसेषु हिताहितप्राप्तिपरिहारविपरीत प्रवृत्तिषु विविधदुःखार्दितेषु दीनकृपणानाथ बाल मोहवृद्धेषु सत्त्वेषु भावयेत् । तथा हि भावयन् हितोपदशादिभिस्ताननुगृह्णातीति ॥
टी० - तदिति कारुण्यमभिसम्बध्यते । तत् कारुण्यं भावयेत् स्वक्षेत्रे । किं पुनः स्वक्षेत्रमित्याह-महामोहो - मिथ्यादर्शनानन्तानुबन्ध्या दिस्तेनाभिभूतेषु वशीकृतेषु । महामोहाभिभवादेव च मतिश्रुतविभङ्गाज्ञानपरिगतेष्वित्याह । मतिश्रुतविभङ्गाज्ञानान्युक्तलक्षणानि प्रथमे, तत्परिगतेषु तदाकारपरिणतिषु । विषयाः शब्दादयस्तेषु तर्षो विषयतर्षः तृट पिपासेति तर्ष एवाङ्गिः परितापकारित्वात् तेन भृशं दन्दह्यमानचित्तेषु । न खलु विषयासेविनः कदाचित् तृप्यन्ति स्थविरावस्थायामपि काङ्क्षामोहग्रहग्रस्ता बह्वीविडम्बना: समासादयन्ति । तथा चाग्निशिखालीढवपुषोऽशर्म सन्ततम् । एवं मूढा विषयतृष्णाज्वलनपरिपच्यमानचेतसो दिवानिशं न सुखमात्रामप्यनुभवन्ति । तेषु चैवंविधावस्थेषु । हिताहितेत्यादि । हितं - मुक्तिसाधनं अहितं - संसारसाधनं तयोः प्राप्तिपरिहारौ तत्र विपरीता प्रष्ठतिर्येषां ते, हितं परिहरन्ति अहितमा सेवन्ते, तेषु, विविधं - नानाप्रकारं ऐहिकामुष्मिक भेदं शरीरमनोविषयं दुःखं तेनार्दितेषु - हिंस्यमानेषु - दुःख्यमानेषु । साबाधशून्यमनस्कता दैन्यम् । तत्सम्बन्धाद् दीनाः- अतिहीन याच्ञाः । प्रणिपातः कार्पण्यं तद्युक्ताः कृपणाः । अनाथास्तूत्सनान्वया अबान्धवाः केनचिदपरिगृहीताः स्वयं वाऽसमर्थाः । बालाः- शिशवः मोमुहा:काहलाः वृद्धाः - सप्ततिसंवत्सर संख्यामतीत्य वर्तमानाः परिग्लानेन्द्रियाः परिपेलवस्मृतयः । केचित् पुनर्बालावस्था प्राप्ताः, तदेतेषु सत्वेषु - करुणाक्षेत्रेषु कारुण्यमविच्छिन्नं भावयेत् । तथा हीत्यादि । तथा च भावयन् उक्तेन प्रकारेण । हितोपदेशादिभिरिति । हितोपदेशोमुक्तिसाधनसम्बन्धः । आदिशब्दाद् देशकालापेक्षान्नपानप्रतिश्रय कर्पट भेषजैरपि ताननुगृहातीति ॥
भा०- - माध्यस्थ्यमविनेयेषु । माध्यस्थ्यमौदासीन्यमुपेक्षेत्यमाध्यस्थ्यभावना नर्थान्तरम् ॥
टी० - माध्यस्थ्यमविनेयेष्वित्यादि । रागद्वेषयोरन्तरालं - मध्यं तत्र स्थितो मध्यस्थः अरागद्वेषवृत्तिरिति तद्भावो माध्यस्थ्यं तच भावयेत् । क ? अविनेयेष्वित्याह ।
१ ' प्रस्तास्तावत्' इति सु-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org