SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ सूत्र ७] स्वोपज्ञभाष्य-टीकालङ्कृतम् अनेकेनाप्युपायेनाबोधयितुमशक्याः प्रकृष्टमिथ्यादर्शनाज्ञानोदयवर्तिनो रक्तद्विष्टपूर्वव्पुद्राहिताथाविनेयास्तेषु । माध्यस्थ्य औदासीन्यं इत्यादि पर्यायकथनेन व्याख्यां तनोति । अरक्तद्विष्ट-उदासीनः तद्भाव औदासीन्यम् । उपेक्षेति ईक्षणम्-आलोचनं सामोप्येनारक्तद्विष्टतया । अरागवृत्तिता अद्वेषवृत्तिता वोपेक्षेत्येकार्थाभिधायिनः शब्दाः ॥ भा०-अविनेया नाम मृत्पिण्डकाष्ठकुड्यभूता ग्रह गधारणविज्ञानेहाऽपोहवियुक्ता महामोहाभिभूता दुष्टावग्राहिताश्च । तेषु माध्यस्थ्यं भावयेत् । नहि तत्र वक्तुहितोपदेशसाफल्यं भवति ॥ ६ ॥ किश्चान्यत्____टी-अविनेया नामेत्यादि । विनीयन्ते-शिक्षा ग्राहयितुं शक्यन्त इति विनेया, न विनेया अविनेयाः, अशिक्षाही इत्यर्थः । नामशब्दो वाक्यसौभाग्यप्रयोजनः । मृत्पिडे. त्यादिशब्द उपमार्थः । मृत्पिण्डकाष्ठकुड्यानीच मृत्पिण्डकाष्ठकुडयभूताः, यया मृत्पिण्डादयो निश्चेतनाः श्रोत्रादीन्द्रियव्यापारशून्या नोपदिष्टमपि हितं समाददते तद्वत् येते तथोक्ताः । एतदेव स्पष्टतरं विवृणोति-ग्रहणधारणेत्यादिना । श्रवणेन्द्रियावधानेनोपदेशप्रहणं प्रतिपत्तिः । गृहीतस्याविस्मरणं धारणम् । एवमेतदिति निश्चितप्रत्ययो विज्ञानम् । इंहा तत्त्वान्वेषिणी जिज्ञासा । विचारणोत्तरकालं अपोहः सदोषपक्षत्यागः । एभिग्रेहणादिभिर्वियुक्ताः । महामोहो-मिथ्यादर्शनं तेनाक्रान्ता अभिगृहीतमिथ्यादृष्टयः । दुष्टावग्राहिताश्चेति । दुष्टास्तु रागादिदोषभाजः तैश्च पक्षानुरागात् परपक्षद्वेषाच्चान्यथावस्तुग्राहिताः। अवग्राहिता इति विप्रलब्धाः, ते च आजीवितावेधि स्वमसद्ह न मुश्चन्ति । तेषु च माध्यस्थ्यं भावयेत् । पूर्वकेषु त्ववगतेरभावाद् विफल उपदेशः । किं पुनः कारणमेतेषु माध्यस्थ्य भावनीयम् ? । नहि तत्रेत्यादि । नैव तत्र मृत्पिण्डादितुल्ये दुष्टावग्राहिते च वक्तुः-कथयितुहितोपदेशदानसाफल्यं भवति। निष्फलं चोपदेशं तीर्थकृतोऽपि नाद्रियन्ते, यथाऽऽह"सर्वत्र देशविरति"मित्यादि । एवं च भावयतो मैत्र्यादिवतानां स्थैर्य भवतीति ॥ ६ ॥ अयमपरोऽभिनवाकुशलकर्मादाननिवृत्तिपरेण महाव्रतधारिणा क्रियाविशेषः प्रणिधेयो भावनाप्रस्ताव इत्यादर्शयति । किश्वान्यदित्यनेन सम्बन्धयति । अन्यदपीदं भावनीयमित्याहसूत्रम्-जगत्कायस्वभावौ च संवेगवैराग्यार्थम् ॥ ७-७॥ टी.-तांस्तान् देव मानुष-तिर्यङ् नारकपर्यायानत्यर्थ गच्छतीति जगत्-प्राणिजाता. ध्यते, धर्मादिद्रव्यसनिवेशो वा, चीयत इति कायः-शरीरम्, जगच्च कायश्च जगत्कायौ तयोः १ 'वधेः' इति ग-पाठः । २ 'सव्वं च देसविरई' इति आवश्यक-नियुक्तौ ( गा० ५६४)। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004023
Book TitleTattvarthadhigam Sutram Part 02
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages396
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy