________________
तत्वार्थाधिगमसूत्रम्
[ अध्यायः ७ स्वभावौ तौ भावयेत् । तत्र जगत्स्वभावस्तावत् प्रियविप्रयोगाप्रियसम्प्रयोगेप्सितालाभदारिय
दौर्भाग्यदौर्मनस्यवधवन्धनाभियोगासमाधिदुःखसंवेदनलक्षणः । तथा जगत्स्वभावः "माता भूत्वा दुहिता" (प्रशमरतो, श्लो० १५६ ) इत्यादि । तथा
सर्वस्थानान्यशाश्वतानि संसारिणां संसार इति । धर्मादिद्रव्याणां च परिणामित्वादनन्तपर्यायरूपेण गमनात् तेष्वपि परिणामानित्यतां भावयेत् । कायस्वभावोऽपि पितृमात्रोरोजःशुक्रमुभयमेकीभूतं गर्भजानां प्राणिनां शरीरतया परिणमत इत्यादिलक्षणः ।
सम्मृच्छेनोपयातजन्मनां तूत्पत्तिदेशावगाढस्कन्धादाननिर्माणानि वषि कायस्वभावः ।
भवन्त्यशुभपरिणामभाजि नानाकाराणि परिशटनोपचितिधर्मकत्वाद् विनश्वराणीत्येवं लक्षणः कायस्वभावः । तावेतौ जगत्कायस्वभावी किमर्थ भावनीयाविस्याह-संवेगवैराग्यार्थम् । यथासंख्याकेन सम्बन्धः। जगत्स्वभावं भावयेत् संवेगाथै, कायस्वभावं वैराग्यार्थमिति । संवेगाय वैराग्याय च (संवेग )वैराग्यार्थम्, 'चतुर्थी तदर्थार्थ०' (पा० अ० २, पा० १, सू० ३६) इति समासः। तत्र संवेगः संसारभीरुत्वादिलक्षणः । वैराग्यं शरीरनिष्प्रतिकर्मतादिलक्षणम् ।
सूत्रितमेवार्थ भाष्येण स्पष्टयन्नाहभा०-जगत्कायस्वभावौ च भावयेत् संवेगवैराग्यार्थम् । तत्र जगत्स्व
भावो द्रव्याणामनाद्यादिमत्परिणामयुक्ताः प्रादुर्भावतिरोभावसूत्रगतशब्दानां
दाना स्थित्यन्यतानुग्रहविनाशाः । कायस्वभावोनित्यता दुःखहेतुत्वं
" निःसारताऽशुचित्वमिति ॥ एवं ह्यस्य भावयतः संवेगो वैराग्यं च भवति । तत्र संवेगो नाम संसारभीरुत्वमारम्भपरिग्रहेषु दोषदर्शनादरतिः धर्मे बहुमानो धार्मिकेषु च।
टी–जगत्कायस्वभावौ चेत्यादिना । जगत्कायावुक्तलक्षणो, तत्स्वभावौ तु भाष्यकृता स्वयमेव व्याख्यातौ। संवेग्यवैराग्ये (ग्यार्थ) च भावयेदित्येतावदनेन भाष्येण विधीयते। तत्र जगत्स्वभाव इत्यादि । तत्रेति जगत्कायस्वभावयोर्जगत्स्वभावस्तावदुच्यते । जगत् जीवाजीवद्रव्याणि तत्स्वभावाः-परिणामाः तेषामेव जगच्छब्दवाच्यानां द्रव्याणां-द्रव्यपुद्गलादीनां अनाद्यादिमत्परिणामयुक्ता इति । कश्चिदनाद्यः परिणामो जीवस्यासंख्येयप्रदेशवत्वचेतनाववज्ञानवत्त्वादिः, कश्चिदादिमान् देवतादिः। पुद्गलद्रव्यस्यापि मूर्तिमत्त्वरूपादिमत्वादिरनादिः, आदिमान् घटपटादिलक्षणः। धर्माधर्मयोर्लोकाकाशव्यापित्वादिरनादिः आदिमान् गतिस्थितिपरिणतद्रव्यजनितः । लोकाकाशस्यामूर्तत्वासंख्येयप्रदेशवत्वादिरनादिः, आदिमानवगाहकद्रव्यापेक्षः । एभियुक्ताः प्रादुभोवादयो जगत्स्वभावाः । अनाद्यादिमत्परिणा
व्याख्या
१'शेषोपायो' इति प्रारम्भकः "क्रियाविशेषस्तस्य' इत्यन्तकः क-ख-पाठः तु प्रक्षिप्त इति स्पष्टम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org