________________
सूत्रं ६ ]
स्वोपनभाष्य-टीकालङ्कृतम् बन्धः । स चैष प्रसृतदुरितशाखाशतसम्बाधो मात्सयेविषयोदयः पुनः पुनरविच्छिन्नबीजाङ्काप्रसवप्रत्यलस्तीक्ष्णप्रज्ञाकुठारधाराच्छेद्योऽवधीरितसकलशेषोपायो मैत्रीभावनया निरवशेषमामूलादुत्कर्तनीयः॥
भा०-प्रमोदं गुणाधिकेषु। प्रमोदो नाम विनयप्रयोगः । वन्दप्रमोदभावना नस्तुतिवर्णवावैयावृत्त्यकरणादिभिः सम्यक्त्वज्ञानचारित्र
तपोधिकेषु साधुषु परात्मोभयकृतपूजाजनितः सर्वेन्द्रियाभिप्यक्तो मनःप्रहर्ष इति ॥ ___टी०-प्रमोदं गुणाधिकेष्वित्यादि । सम्यक्त्वादिगुणाधिकेषु व्रतिषु प्रमोद-प्रहर्ष भावयेत् । प्रमोदव्याचिख्यासया प्रमोदो नामेत्याद्याह । नामशब्दो वाक्यालङ्कारार्थे । अलङ्कारः सुभगता श्रोत्रसुखत्वं, शिक्षानिसर्गावदातो लोकाराधनसमर्थो तिनयः सामान्येन । तद्विशेषस्तु विनीयते येन कर्म-विलयमापद्यते स विनयो ज्ञानदर्शनचरणोपचारभेदः क्रियाविशेषस्तस्य प्रयोगः-अनुष्ठानम्। विनयाहेषु वन्दनं-प्रढमनोवाकायैर्विशेषत उत्तमाङ्गेन वन्दनार्हाणां पादस्पर्शनम् । स्तुतिः-स्तुत्यानां सद्भूतगुणोत्कीर्तनम् । वर्णवादो-यशःप्रख्यापनं वर्णो-यशस्तत्प्रथनम् । अवदातचरिताः खलु मुनयोऽमी यथोत्क्षिप्तमोक्षानुगुणचेष्टाभारवाहिन इत्यादिकः । वैयावृत्त्यं-व्यावृतता बालग्लानगुरूपवासिशैक्षप्राघूर्णकानुद्दिश्याऽपरान् वा मुनीनागमविहितभक्तपानवस्त्रपात्रप्रतिश्रयदण्डकाद्युपकरणमागेणानयनप्रदानलक्षणो व्यापारस्तस्यानुष्ठानं करणम् । आदिशब्दाद देशकालापेक्षः साधूद्देशेनानेकप्रकारः पूजाहेतुः संगृहीतः। सम्यक्त्वं-तत्त्वार्थश्रद्धानलक्षणम् । ज्ञानं-हिताहितप्राप्तिपरिहारविषयो बोधः । चारित्रं-मूलोत्तरगुणभेदम् । तपो-बाह्याभ्यन्तरविधानम् । एभिः सम्यक्त्वादिभिरधिकाःसाधषो गृहस्थादिभ्यस्तेषु परेणात्मना उभा(भया)भ्यां वा कृता या वन्दनादिलक्षणा पूजा तया जनित-उत्पादितः सर्वेन्द्रियाभिव्यक्तं इति । सर्वग्रहणं सम्भवापेक्षम् । साधुगुणोत्कीर्तनसमये विततकर्णदानविकसदुत्फुल्ललोचनाविर्भूतरोमाञ्चकञ्चुकतादिलिङ्गप्रकटितो मनःप्रहर्षः प्रमोद इत्याख्यायते ।।
- भा०–कारुण्यं क्लिश्यमानेषु । कारुण्यमनुकम्पा दीनानुग्रह ईत्यभावना नर्थान्तरम् ।
टी०-कारुण्यमित्यादि । करुणा-अनुकम्पा तद्भावः कारुण्यम् । कः पुनरस्य विषय इति क्लिश्यमानेष्वित्याह । कर्तरि लः। क्लिश्यमानेषु-सन्तापमनुभवत्सु । एतदेव प्रपश्चयति भाष्यकार:-कारुण्यमनुकम्पेत्यादि । अनुकम्पा दीनानुग्रह इति कारुण्यप
कारुण्य
१'प्रयोगवन्दन० ' इति ग-पाठः । २ 'इस्यर्थः' इति घ-पाठः । ३ 'प्रताप.' इति ग-पाठः, ' ताप.' इतितु-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org