________________
५६
तत्त्वार्थाधिगमसूत्रम्
[अध्यायः ७ कण्डूपरिगतत्वोच्चाब्रह्मेति, तथा परिग्रहेष्वप्राप्तप्राप्तनष्टेषु काङ्क्षाशोको प्राप्तेषु च रक्षणमुपभोगे
वावितृप्तिरिति, तदना मूत्रकरणमिति विज्ञायते । यदि च सूत्रं स्यात् भाष्यस्य सूत्रीकरणे दोषात
" तत उपभोगे वाऽवितृप्तिरित्यस्यावयवस्य विवरणं स्यात् , न चास्ति,
" तस्मादनार्षे सूत्रद्वयमन्तरालकमिति । एवम्-इत्युक्तेन प्रकारेण भावयतो वासयतः स्थैर्य वतिनो व्रतानां भवति ॥५॥
किश्चान्यदित्यनेन सम्बन्धमाह । भावनाप्रस्तावेऽन्यच्च किं भावयितव्यमित्यत आहसूत्रम्--मैत्रीप्रमोदकारुण्यमांध्यस्थ्यानि सत्त्वगुणाधिकक्लिश्यमा
नाविनेयेषु ॥ ७-६ ॥ टी.-मैत्र्यादीनां कृतद्वन्द्वानां द्वितीयाबहुवचनेन निर्देशः । सत्त्वादीनामपि कृतद्वन्द्वानां भावनाविषयत्वेनाधिकरणविभक्तिबहुवचनेन निर्देशः । किश्चान्यदित्यस्यार्थ स्पष्टयति
भा०-भावयेद् यथासङ्ख्यम् । मैत्री सर्वसत्त्वेषु । क्षमेऽहं मैत्रीभावना सर्वसत्त्वानाम् । मैत्री मे सर्वसत्त्वेषु। वैरं मम न केनचिदिति॥
टी०-भावयेद् यथासङ्ख्यमित्यनेन भाष्येण । भावनावसरे इदमपरं मैत्र्यादि भावयेत् । तच्च यथासङ्ख्यमभिसम्बध्य भावयेत् । मैत्री सत्वेषु, प्रमोदं गुणाधिकेषु, इत्येवमन्यत्रापि योज्यम् । मैत्री सर्वसत्त्वेष्वित्यादि भाष्यम् । मित्रं 'जिमिदा स्नेहने'
औणादिकः ष्ट्रन् । मिद्यतीति मित्रं, निह्यतीत्यर्थः। तस्य भावः समस्तसत्त्वविषयः स्नेहपरिणामो मैत्री । येऽपि कृतापकाराः प्राणिनः प्रमादादन्यथा वा तेष्वपि मित्रतां चेतसि सभिवेश्य मित्रमहमेतेषां एते च मे मित्राणीति तत् कथमहं मित्रद्रोहतां प्रतिपत्स्ये। दौर्जन्याअयं हि मित्रद्रोहित्वम् । अतः क्षमेऽहं सर्वसत्त्वानामिति क्षमा भावयेत् । सम्यक् मनोबाकायैः सहेऽहं सर्वसत्त्वानाम् । एवं हि मित्रता यथार्थत्वमासादयति । येषां च मयाऽपकारः कृतस्तानपि सत्त्वान् क्षमयेऽहं मित्रत्वात् । हस्वत्वं 'णिचश्च' (पा० अ० १, पा० ३, सू०७४) इत्यात्मनेपदम् । क्षमये इति क्षमा ग्राहयामि सर्वान् प्राणिनः प्रशस्तेन चेतसा । स्वचेतसश्च कालुष्यमपनेयमित्येवमुपनयस्तन्त्रे । परस्तु क्षमेत वा न वेत्येतदेव स्पष्टतरं विधुणोति-मैत्री मे सर्वसत्त्वेषु वैरं मम न केनचिदिति । वीराणामिदं कर्म 'तस्येदम्' (पा० अ०४, पा०३, सू० १२०) इत्यण् । वैरमविच्छिनकोपराणां शूराणामन्योन्यव्यापादनलक्षणा कर्मपरम्परा, तत्र कृतापकारेण अकृतापकारेण वा केनचिदसुमता सार्धमवैरानु
१ 'स्वादब्रह्मेति ' इति ङ-पाठः। २ 'माध्यस्थानि' इति घ-पाठः । ३ 'क्षमये' इति घ-पाठः ।
४ प्रसराणांइति-पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org