SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ सूत्रं २४ ] स्वोपज्ञभाष्य–टीकालङ्कृतम् १७३ गीयते यस्योदयादुच्चैरयं पूज्य उग्रो भोज इक्ष्वाकुरिति तदुच्चैर्गोत्रम् । तथा यदुदयाद् दरिद्रः अप्रज्ञातो गर्हितश्चाण्डालादिस्तन्नीचैर्गोत्रम् | दोनादीनां विघ्नमुदयाद् यस्य सोऽन्तराय इति । नमेवार्थ भाष्येण प्रतिपादयति भा०-- सोऽनुभावो गतिनामादीनां यथा नाम विपच्यते ॥ २३ ॥ 0 टी० - सोऽनुभाव इति । अनन्तरप्रस्तुतस्य विपाकस्य तच्छब्देन परामर्शः । अनुभावः कर्मणां सामर्थ्यम् । गतिनामादीनामिति यद् ग्रहणं तदशेषकर्माधारताप्रदर्शनार्थम् । ज्ञानावरणाद्युदयो भवति गतिजातिशरीरादिवृत्तेर्जीवस्य । अन्यथा त्वसम्भव एवेति । सप्तम्यर्थे षष्ठीं । गतिनामादीनां वा सर्वकर्मणां स विपाको भवति, यथा नाम विपच्यते- विपाकमुदयमासादयतीतियावत् ॥ २३ ॥ यदि विपाकोऽनुभावः प्रतिज्ञायते ततस्तत्कर्मानुभूतं सत् किमावरणवदवतिष्ठते, उत निःसारं सत् प्रच्यवते ? उच्यते - पीडानुग्रहावात्मनः प्रदायाभ्यवहृतौ दानादिविकारवन्निवर्तते अवस्थानहेत्वभावात् । अस्यार्थस्य प्रतिपादनाय सूत्रम् - सूत्रम् - ततश्च निर्जरा ॥ ८-२४ ॥ 1 टी० - ततश्चेति विरामार्थत्वात् पञ्चमी । ततो विपाकात् कर्मणो विरमणं परिशटनं भवति ॥ 1 भा०-- ततश्चानुभावाद् कर्मनिर्जरा भवति । निर्जरा क्षयो वेदनेत्येनर्थान्तरम्, अत्र चशब्दों हेत्वन्तरमपेक्षते । तपसा निर्जरा चेति वक्ष्यते (अ० ९ सू० ३) ।। २४॥ टी० - ततश्चानुभावादित्यादि भाष्यम् । तस्मादनुभावाद् विपाकलक्षणात् कर्मणो ज्ञानावरणादेर्निर्जरा परिपतनमात्मप्रदेशेभ्यो भवति । निर्जराशब्दार्थमाचष्टे – निर्जरा क्षयो वेदनेति । निर्जरणं निर्जरा, हानिरित्यर्थः । क्षयो - विनाशः कर्मपरिणतेर्विगमः । वेदना रसानुभव आकर्मपरिणामफल परिणाम भोगपरिसमाप्तेः इति धारणा (?) शाटव्यपगमपातप्रच्युत्यादयो निर्जराशब्दार्थाः परिज्ञेयाः । सा च निर्जरा द्विविधा विपाकजा अविपाकजा वा । विपाक उदयः । उदीरणा त्वविपाकः । तत्राद्या संसारोदधौ परिप्लवमानस्यात्मनः शुभाशुभस्य कर्मणो विपाककालप्राप्तस्य यथायथमुदयावलिकास्त्रोतसि पतितस्य फलोपभोगादुपजातस्थितिक्षये या निवृत्तिः सा विपाकजा निर्जरा । यत् पुनः कर्माप्राप्तविपाककालमौपक्रमिकक्रियाविशेषसामर्थ्यादनुदीर्ण बलादुदीर्योदयावलिकामनुप्रवेश्य वेद्यते पनसतिन्दुकाम्रफलपाकवत् सा त्वविपाकजा निर्जराद्वयस्य व्याख्या १ 'भोग' इति ग-च- पाठः । २ ' दात्रादीनां' इति च पाठः । ३ ' अन्यथा इति क-ग-पाठः । ४ 'भवतीति' इति घ- पादः । ५ ' त्यर्थं ' इति घ- पाठः । ६ 'मनुप्रपद्यते ' इति ग-पाठः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004023
Book TitleTattvarthadhigam Sutram Part 02
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages396
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy