________________
१७२
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ८ यथासङ्ख्यममिसम्बन्धः कार्यः।
" अनुभावांश्च विपर्यासयति तथैव प्रयोगतो जीवः ।
तीव्रान् वा मन्दान् वा स्वासु प्रकृतिष्वभिन्नासु ॥४॥ यद् यद् वा मन्दं संरक्षारीक्रियते हरिद्रया चूर्णम् । वाताऽऽतपादिभिश्च क्षारं मन्दीक्रियेत यथा ॥५॥ तीव्रोऽनुभावयोगो भवति हि मिथ्यात्ववेदनीयस्य ।
सम्यक्त्वे त्वतिमन्दो मिश्रे मिश्रोऽनुभावश्च ॥ ६ ॥" अत्र प्रतिज्ञातेऽर्थे युक्तिमाह-जात्यन्तरानुबन्धविपाकनिमित्तान्यजातीयकत्वादेव सक्रमोन विद्यते इति । जात्यन्तरस्यानुबन्धनमनुवर्तनं यः करोति पाकस्तस्य यनिमिर्च तदन्यजातीयकं भिन्नम् । तथाच दर्शनमोहनीयादीनामास्रवा भिन्ना एव पठिताः प्रवचन इति ॥
भा०--अपवर्तनं तु सर्वासां प्रकृतीनां विद्यते । तदायुष्केण व्याख्यातम् (अ० २, सू० ५२ ) ॥ २२ ॥
टी-अपवर्तनं स्वित्यादि । सर्वासामेव प्रकृतीनां सम्भवत्यपवर्तनं । द्राधीयस्याः कर्मस्थितेरल्पीकरणमपवर्तनम् । सर्वासामेव प्रकृतीनां तत् सम्भवत्यध्यवसायविशेषात् । तच प्राय व्याख्यातमेवेति तत्प्रतिपादनायाह—तदायुष्केण व्याख्यातमिति । तदपवर्तनमायुककर्मणा द्वितीयेऽध्याये (५२तमे सूत्रे) व्याख्यातमिति ॥ २२ ॥
विपाकोऽनुभाव इति स्वरूपमात्रमाख्यातम् । सम्प्रति तु यथा विपच्यते कर्म तथा प्रतिपादयमाह
सूत्रम् स यथानाम ॥ ८-२३ ॥ टी--स विपाक उक्तलक्षणो यथानाम भवति । यथाशब्देन वीप्सावाचिनाऽन्ययीभावः । यद् यस्य नाम संज्ञान्तरं कर्मणस्तत् तथा नामानुरूपमेव विपच्यते, यस्मात् ज्ञानावरणादीनां सविकल्पानां प्रत्येकमन्वर्थनिर्देशः । ज्ञानमावियते येन तत् ज्ञानावरणम् । यद् विपच्यमानं ज्ञानाभावे विवर्तत इति । इत्थं दर्शनावरणमपि । सामान्योपयोगोपरोध इतियावत् । सुखानुभवः सद्वेद्यम् । दुःखानुभवोऽसद्वेद्यम् । तथा दर्शनमोहश्चारित्रमोहथ । दर्शनं तत्त्वार्थश्रद्धानलक्षणं चारित्रं मूलोत्तरगुणभेदं तन्मोहयतीति । आयुर्जीवनं-प्राणधारणं यदुदयाद् भवति तदायुः । तांस्तान् गत्यादीन् भावान् प्रशस्तानप्रशस्तश्च नामयति-प्रापयतीति नाम । यदुदयाद् गतिनामाघनुभवतीत्यर्थः । तथा प्रतिभेदमपि गति नामयतीति गतिनाम । एवं जातिनामाद्यपीति । गोत्रमिति । 'कै गै शब्दे' (पा० धा०७१६-७१७) गोत्रं संशब्दन
१ 'तोत्रमन्दान्' इति च-पाठः । २ 'सत्कारी' इति ङ-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org