________________
सूत्रं २२ ]
स्वोपज्ञभाप्य–टीकालङ्कृतम्
१७१
सक्रमस्थानम्
सर्वासु सङ्क्रामतीति प्राप्तम्, अत आह— मूलप्रकृत्यभिन्नास्विति । मूलप्रकृतिभ्यः अभिन्नासु-अपृथग्भूतासु - मूलप्रकृतीरजहतीषु । यथा - मूलप्रकृतिरेका ज्ञानावरणमिति । उत्तरप्रकृतयः पश्च । तत्रैताः पञ्चाप्यन्योन्यमेव सङ्क्रामन्ति, नान्यमूलप्रकृत्युत्तरप्रकृतिषु। एनमेवार्थं सावधारेणं दर्शयति- न तु मूलप्रकृतिषु सङ्क्रमो विद्यत इति । तुशब्दोऽवधारणार्थः । नैव मूलप्रकृतिषु सङ्क्रमोऽस्ति । नहि ज्ञानावरणं दर्शनावरणे सङ्क्रामति, नापि दर्शनावरणं ज्ञानावरणे, इत्येवमन्यत्रापि योज्यम् । अमुमेवार्थ युक्त्तया प्रतिपादयन्नाह — बन्धविपाकनिमित्तान्यन्यजातीयानीति । भिन्नजातीयानीत्यर्थः । अन्यद् बन्धनिमित्तं ज्ञानावरणस्य तत् प्रदोषनिहवादि । अन्यदसद्वेदनीयादेर्दुःखशोकादि ज्ञानदर्शनावरणयोर्बन्धनिमित्तमभिन्नमपि सदाशय विशेषाद् भेदमुपाद्भुत एव । विशेषग्राहि ज्ञानावरणम् । दर्शनावरणं तु सामान्यमात्रग्राहि, सामान्योपयोगमेवान्तर्धत्ते । एवं बन्धनिमित्तभेदाद विपाकनिमित्तभेदाच्च भिन्नासु मूलप्रकृतिषु सङ्क्रमो नास्ति । पूर्व सर्वास्वित्युक्तं यत् तत् सम्प्रत्यपोद्यते—
भा० - उत्तरप्रकृतिषु च दर्शनचारित्रमोहनीययोः सम्यगमिथ्यात्ववेदनीयस्यायुष्कस्य व जात्यन्तरानुबन्धविपाकनिमित्तान्यजातीयकत्वादेव सङ्क्रमो न विद्यते ॥
टी० — उत्तरप्रकृतिष्वित्यादि । कासाञ्चित् उत्तरप्रकृतीनामपि कासुचित् प्रकृतिषु सङ्क्रमो नास्तीति दर्शयति । तत्र दर्शन मोहश्वत्वारोऽनन्तानुबन्धिनः क्रोधादयो मिथ्यात्वं सम्यग्मिथ्यात्वं सम्यक्त्वमिति । शेषश्चारित्रमोहोऽप्रत्याख्यानादिः । तत्र दर्शनमोहो न सङ्क्रामति चारित्रमोहे नापि चारित्रमोहो दर्शनमोहे इति । सम्यगमिथ्यात्वस्यासत्यपि बन्धे सम्यक्त्वेऽस्ति सङ्क्रमः । सम्यक्त्वं तु सम्यग्मिथ्यात्वे न सङ्क्रमति । तथा सम्यक्त्वसम्यग् - मिथ्यात्वयोर्मिथ्यात्वं सङ्क्रामयति | आयुष्कस्य च नारक - तिर्यङ् - मनुष्य- देवभेदस्य परस्परं नास्ति सङ्क्रम इति । उक्तं चात्र
44 मूलप्रकृत्यभिन्नाः संङ्क्रमयति गुणत उत्तराः प्रकृतीः । नन्वात्माऽमूर्तत्वादध्यवसानप्रयोगेण ॥ १ ॥
शिथिलयति दृढ बद्धं शिथिलं दृ (द्र ) यति च कर्म ननु जीवः । उत्कृष्टाश्च जघन्याः स्थितीर्विपर्यासयति चापि ॥ २ ॥ " सक्क्रमणस्थित्युदीरणात्रयस्य दृष्टान्तत्रयोपप्रदर्शनायाह
" तारीकरण ताम्रस्य शोषणस्तेमने मृदुः क्रमशः । आम्रपरिपाचनं वा काले तेषूपदृष्टान्ताः ॥ ३ ॥ "
१' रणकं' इति ङ-च- पाठः । २ ' न्तर्वर्तते' इति ङ-पाठः । ३ ' सङ्क्रम इति' इति क-ग-पाठः । ४ 'प्रकृतयः' इति ङ-पाठः । ५ 'तेष्वेव' इति ङ-पाठः, ' तेष्वत्र ' इति तु ग-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org