________________
[अध्यायः८
१७४
तत्त्वाथाघगमसूत्रम् निर्जरा । आह च
"तारीकरणं ताम्रस्य शोषणस्तेमने मृदा क्रमशः।
आम्रपरिपाचनं वा काले तेषूपदृष्टान्ताः ॥१॥" यथासङ्ख्यमेते सङ्क्रमस्थित्युदीरणासु योज्याः । अत्र सूत्रे चशब्दो हेत्वन्तरमपेक्षते । विपाकहेतुका निर्जरेत्येको हेतुः । अस्मादन्यो हेतुर्हेत्वन्तरम् । तदर्शनायाह-सपसा निर्जरा चेति वक्ष्यते-नवमेऽध्यायेऽभिधास्यते संवराधिकारे ( तृतीयसूत्रे )। वपसा द्वादशप्रकारेण संवरश्च भवति निर्जरा चेति । तपोऽपि निर्जराहेतुरतो निमित्तान्तरसमुच्चयार्थच शब्दः । इह चाष्टमे कर्मविरामणार्थ निर्जराग्रहणं, नवमे संवरार्थमिति ॥ २४ ॥
भा०-उक्तोऽनुभाववन्धः, प्रदेशबन्धं वक्ष्यामः॥
टी०-उक्तोऽनुभावबन्धः । प्रदेशबन्धं वक्ष्याम इति उत्तरसूत्रसम्बन्धग्रन्थः। बन्धचतुष्टयी प्रकृता । ततः तृतीयोऽनुभावबन्ध उक्तः प्रपञ्चेन । सम्प्रति प्रदेशबन्धं वक्ष्याम इति प्रतिजानीते । तत्प्रतिपादनीयाह
सूत्रम्-नामप्रत्ययाः सर्वतो योगविशेषात् सूक्ष्मैकक्षेत्रावगाढस्थिताः सर्वात्मप्रदेशेषु अनन्तानन्तप्रदेशाः॥८-२५ ॥
टी०-नामप्रत्यया इति सूत्रम् । अत्राष्टौ प्रश्नाः कस्य प्रत्ययाः कारणीभूताः, किंप्रत्ययां वा पुद्गला बध्यन्त (इति) एकः प्रश्नः १, जीवोऽपि तान् बधानः पुद्गलान् किमेकेन
दिक्प्रदेशेन बध्नाति, उत सर्वदिक्प्रदेशैरिति ग्रहणमात्रमत्र विवक्षितम् २, . सोऽपि बन्धः किं सर्वजीवानां तुल्यः आहोस्वित् कुतश्चिनिमित्तादतुल्य!
३, किंगुणाः केवलाः पुद्गला बन्धास्पदं भवन्ति ४, यत्र चाकाशदेशे व्यवस्थिताः पुद्गलास्तत्रैवावगाढा ये जीवप्रदेशाः किं तेषामेव पुद्गलानां तत्र बन्धः, आहोस्तिजीवप्रदेशावांढगगनदेशव्यतिरिक्तप्रदेशवर्तिनोऽपि बध्यन्ते १.५, किं वा स्थितिपरिणत बध्यन्ते, अथवा गतिपरिणताः १६, ते च किमात्मना सर्वप्रदेशेषु अथैकैकदिशे श्लिष्यन्ति १७, स्कन्धा वा किसङ्ख्येयासङ्ख्येयानन्तप्रदेशा बध्यन्ते,उतानन्तानन्तप्रदेशा इति।८। एषामष्टानां प्रश्नानां क्रमेणाष्टाभिः सूत्रावयवैर्निराकाङ्क्षीकरणं-नामप्रत्ययाः १ सर्वतः २ योगविशोषात ३ सूक्ष्माः ४ एकक्षेत्रावगाढाः ५ स्थिताः ६ सर्वात्मप्रदेशेषु ७ अनन्तानन्तप्रदेशाः ८ इति ॥
भा०-नामप्रत्ययाः पुद्गलाः 'बध्यन्ते । नाम प्रत्यय एषां ते इमे नामप्रत्ययाः । नामनिमित्ता नामहेतुका नामकारणा इत्यर्थः। .
१ ' यन्नाह ' इति ग-पाठः । २ 'कारणभूताः' इति च-पाठः । ३ 'गाढभाग' इति ग-पाठः। ४ 'पज्यन्ते इति ग-पाठः ।
प्रदेशबन्धविचारोऽधविधः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org