________________
१९६ तन्वार्थाधिगमसूत्रम्
[ अध्यायः ९ अवसरप्राप्तं पञ्चमं धर्माङ्ग निदिदिक्षुराह
भा०-सत्यर्थे भवं वचः सत्यं, सद्भयो वा हितं सत्यम्, तदननृतम्, अपरुषमपिशुनमनसभ्यमचपलमनाविलमविरलमसम्भ्रान्तं मधुरमभिजातमसन्दिग्धं स्फुटमौदार्ययुक्तमग्राम्यपदार्थाभिव्याहारमसीभरमरागद्वेषयुक्तम् ॥
टी०–सन्-विद्यमानोऽर्थोऽनेकधर्मा तस्मिन् सत्यर्थे भवं, दिगादित्वात् यत्, यथाऽवस्थितार्थप्रतिपत्तिकारि सत्यम् ॥ नन्वेवं सति लुब्धकाय मृगाख्यानमपि सत्यं स्यात् , किं (एवं ?) तर्हि सच्छब्दः प्रशंसार्थः । प्रशस्तोऽर्थः सन् न पापहेतुः तस्मिन् सति भवं सत्यं, पक्षान्तरसमाश्रयणं वा, सद्भयो वा हितं सत्यमिति, सन्तो जीवा एव गृह्यन्ते, हितशब्दोपादानात् । न ह्यजीवसम्बन्धि किञ्चिद्धितमस्ति, अतोऽप्रशस्तार्थव्यावृत्तिः । सामान्येन वा जीवाजीवेभ्यो हितम् । अनेकपर्यायकलापभाजोऽर्थाः। तेषां यथाऽवस्थितविवक्षितपर्यायप्रतिपादनं सत्यं, एतदेव तेभ्यो हितं यद् यथार्थप्रतिपादनमिति, तस्येदानी सत्यवचनस्य विशेषगुणानाचष्टे-तदनृतमिति । अनृतं-भूतनिहवः अभूतोद्भावनं विपरीतकटुकसावद्यादिवचनं, नानृतम् । ननु च सत्यपर्याय एवायम् । सत्यमेतत् , तथापि वक्ष्यमाणोत्तरगुणप्राप्त्यर्थं पुनर्वचनम्। परुष-रूक्षं स्नेहरहितं (निष्ठुरं) परपीडाकारि । न परुषमपरुषम् । तत्राविनयेषु माध्यस्थ्यभावना, विनयेषु तु सौम्या वागपरुषम् , पिशुनं-प्रीतिविच्छेदकारि द्वयोर्वहनांवा सत्यासत्यदोषाख्यानात् । न पिशुनमपिशुनम् । सभाह-सभ्यं, न सभाहेमसभ्यं-सभासु विगर्हितं विदग्धसभासु गुह्यप्रकटनामोद्घाटनवचनवत् । तस्य प्रतिषेधो नासभ्यमनसभ्यम् । चपल:अनालोचितभाषी, तद्वचनमपि चपलं, तच्च दोषाक्षेपि भवति । आविलं-कलुष, कषायवशवतिनो वचनं न आविलमनाविलं, प्रसन्नवचनमितियावत् । विरलं-विश्रम्यभाषणम् । सविच्छेदत्वाच्च श्रोतुरनादरवाक्यव्याहरणाच वणवैरस्यं करोति । न विरलमविरलमनुसन्ततमिति । सभ्रान्तं तु त्रासकर, न सम्भ्रान्तमसम्भ्रान्तं अतित्वरितं वा सम्भ्रान्तमर्नुच्छ्सन भाषते च यत् अव्यक्तवर्णपदलोपत्वादप्रत्यायकं वा श्रुतिविरसाक्षरमप्ररोचकमेव स्यात् । मधुरमिति प्रसन्नपदघटितं श्रुतिसुखं, सुखावबोधार्थ च अनभिमान-विनयसहितं अभिजातं-सप्रश्रयं सविनयं सन्दिग्धम्-आकाक्षाविनिवर्तने अक्षम, तद्विपरीतमसन्दिग्धमाकाक्षाविच्छेदकारि, निराकाङ्क्षमिति । अस्फुटम् अॅनिश्चितार्थत्वादालूनविशीर्णप्रायं, (वि)निश्चितार्थ तु स्फुटम् । अनौदार्यम्-अत्यौद्धत्यप्रदीपकं, तद्विपरीतमौदार्यम् । अप्रधानार्थे अनौदार्य उदारार्थप्रतिबद्धत्वादुदारं तद्भाव औदार्य तद्युक्तमौदार्ययुक्तम् । विद्वज्जनमनोऽनुरञ्जनेऽसमर्थ ग्राम्यं, न
१'व्याप्त्यर्थ' इति च-पाठः । ४ 'अनभिमतमविनय' इति च-पाठः।
२ 'न्तमुत्रास' इति च-पाठः।। ३ 'अनुच्छ्स' इति ङ-पाठः । ५'मविनिश्चिता' इति -पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org