________________
सूत्रं ६ ]
स्वोपज्ञभाष्य–टीकालङ्कृतम्
१९५
वाऽऽजैवम् । भावदोषवर्जन मित्यर्थः । भावदोषयुक्तो हि उपधिनिकृति संप्रयुक्त इहामुत्र चाशुभफलमकुशलं कर्मोपचिनोति । उपदिश्यमानमपि च श्रेयो न प्रतिपद्यते । तस्मादार्जवं धर्म इति ॥ ३ ॥
टी० - भावविशुद्धिरिति । भावाः - कायवाङ्यानसानि तेषां विशुद्धिः - अवक्रतशाक्ष्य विरहितत्वम्, मनसोऽपि परिणामः कायवा चोरुपचर्यते तद्वृत्तानुवृत्तेः । मायावी तु सर्वाभिसन्धानपरतया सर्वाभिशङ्कनीयः केपटपटप्रच्छादितकायादिक्रियः सुहृदेऽपि द्रुह्यति ।
तमेव योगानामविपर्यासं दर्शयति ऋजुभाव इत्यादिना । उपधिनिकृत्योर्विशेषः - उपधिः छद्म छादनं स्वाभिसन्धेः निकारो निकृतिः परबुद्धिपराभवद्वारेण स्वाभिसन्धेः साफल्यापादनम् | अविसंवादनमविनाशनं अहिंसनमित्यनर्थान्तरम् । विनाशनं - परिणामान्तरापादनं विसंवादनमुच्यते । न विसंवादनमविसंवादनम्, परिणामान्तरानापादनमिति । तस्मादेवंविधमार्जवं धर्मः ॥
अधुना लोभप्रतिपक्षं शौचलक्षणमाविर्भावयन्नाह -
-
भा०-- अलोभः शौचलक्षणम् । शुचिभावः शुनिकर्म वा शौचम् ॥
टी० – अलोभ इति । अलोभः शौचलक्षणम् । लोभस्तु भावतः परमार्थतोऽभिष्वङ्गचेतनाचेतनमिश्रवस्तुविषयः । लोभदोषाच्च क्रोधमानमायाहिंसाऽनृतस्तेयाऽत्रह्मपरिग्रहार्जनमलजाले नोपचीयमान आत्मा भवत्यशुचिः । तत्रालोमो-लोभाभावो न कचिन्ममत्वम् । अलोभस्य हि लोभदोपविनिर्मुक्तत्वान्निर्भयत्वम् । ततः स्वपरेहिताभिप्रवृत्तिरित्येतदेव शौचलक्षणं मुख्यमात्मनः ।
एतदेव स्पष्टयति
भा०
० - भावविशुद्धिर्निष्कल्मषता । धर्मसाधन मात्रास्वपि अनभिष्वङ्ग इत्यर्थः । अशुचिर्हि भावकल्मषसंयुक्त इहामुत्र चाशुभफलमकुशलं कर्मापचिनोति, उपदिश्यमानमपि च श्रेयो न प्रतिपद्यते । तस्माच्छौचं धर्म इति ॥ ४ ॥
टी० - भावविशुद्धिर्ममत्वाभावो निःसङ्गता च, अपरद्रोहेणात्मार्थानुष्ठानं, निष्कल्म पता- -निर्मलता भाव ( धर्म ? ) साधनमात्राः - रजाहरण-मुखपत्रिका - चोलपट्टक- पात्रादिलक्षणाः तास्वप्यनभिष्वङ्गो विगतमूर्च्छ इत्यर्थः । यस्मादशुचिर्भावकल्मषसंयुक्तः, भावकल्मषं च लोभकपायस्तस्मात् तच्यागः । शौचं धर्म इति, शरीरमहाव्रणप्रक्षालनादि द्रव्यशौचं तच प्रापणीयेन जलादिना निर्लेपनिर्गन्धितापादनमागमोक्तेन विधिना कार्यमिति ॥
१' कपटप्रच्छादित' इति ङ-पाठः | २' हिताहिताभि' इति ङ-पाठः । ३ 'महावर्ण' इति च - पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org