________________
सूत्रं ६ ] स्वोपज्ञभाष्य-टीकालङ्कृतम्
१९७ ग्राम्यमग्राम्यम् । पदार्थाश्च विवक्षितानभिव्याहरतीति पदार्थाभिव्याहारम् , अग्राम्यत्वात् पदार्थानभिव्याहरतीति । विद्वज्जनाभिमतानित्यग्राम्यपदार्थाभिव्याहारं, सीमरं विकत्थनं विमर्दकर, न सीभरमसीभरं आश्वेव प्रस्तुतार्थपरिसमाप्तिकारि । अरागद्वेषयुक्तमिति मायालोभाभ्यां कोपमानाभ्यां चायुक्तम् ॥
भा०-सूत्रमार्गानुसारप्रवृत्तार्थमर्थ्यमर्थिजनभावग्रहणसमर्थमात्मपरार्थानुग्राहकं निरुपधं देशकालोपपन्नमनवद्यमईच्छासनप्रशस्तं यतं मितं याचनप्रच्छनं प्रश्नव्याकरणमिति सत्यधर्मः॥५॥
टी०-सूचनात् सूत्र-गणधरप्रत्येकबुद्धस्थविरप्रथितं तस्य यो मार्गः-उत्सर्गापवादलक्षणः तदनुसारेण प्रवृत्तार्थ-प्रस्तुतीर्थात् अनपेतं अर्थ शुश्रूषुर्जनोऽर्थी तस्य भावः-चित्तं तद्ग्रहणसमर्थ-तदावर्जनसमर्थम् । तदेवंविधमात्मपरानुग्रहसमर्थे भवति। निरुपधं मायारहितम् । उपधाभावदोषः। देशे यद् यत्र यस्यार्थस्य प्रसिद्धं बद्देशोपपन्नमविरुद्धम् , कालोपपन्नं यद् यत्र काले भण्यमानं न परस्योद्वेगकारि भवति, प्रस्तावापेक्षमित्यर्थः । अनवद्यम्-अगर्हितम् । अर्ह. च्छासनं द्वादशाङ्गं प्रवचनं तत्र तेन वा प्रशस्तम् अनुजातं यत् तत् प्रयत्नसहितो मुखवसनाच्छादितवदनविवरः पाणितलस्थगितमुखोवा। मितमिति यावता विवक्षितकार्यप्रतिपचिस्तावदेव, न त्वपरिमितं, याचनमभीक्ष्णावग्रहादिविषयं, प्रच्छनमुत्पन्नसन्देहस्य मार्गादिसूत्रार्थविषयं प्रश्नव्याकरणमन्येन पृष्टःप्रवचनाविरुद्धं व्याकरोतीति । तदेवमनृतपरुषाधपोह्य तद्विपर्ययेण सत्यमन्वेष्यमिति । याचनप्रच्छनप्रश्नव्याकरणेषु च विष्वेव प्राधान्येन साधोर्वाग्व्यापारो, नान्यत्र निष्प्रयोजनत्वात् , स्वाध्यायवाचनाद्यपि न कतव्यमिति चेत्, न तत्, आत्मसंस्कारार्थी वाचनादिर्यत्नः। संस्कृतात्मा च त्रिष्वेव याचनादिषु व्याप्रियत इति । अथवा मुमुक्षोर्मुक्यर्थे यत्ने यदुपकारकं वचनं न तस्यास्ति निषेध इति ॥
सम्प्रति संयमोऽभिधीयतेभा०-योगनिग्रहः संयमः । स सप्तदशविधः । तद्यथा-पृथिवीकापिक
संयमः, अप्रकायिकसंयमः, तेजस्कायिकसंयमः, वायकायिविधत्वम्
दश कसंयमा, वनस्पतिकायिकसंयमः, द्वीन्द्रियसंयमः, त्रीन्द्रिय
- - संयमः, चतुरिन्द्रियसंयमः, पश्चेन्द्रियसंयमः ॥ टी-योगनिग्रहः संयम इति। योगा-मनोवाकायलक्षणास्तेषां निग्रहः-प्रवचनो. तविधिना नियमः एवमेव गन्तव्यमेवं स्थातव्यमेवं चिन्तयितव्यं एवं भाषितव्यमिति एष
संयमस्य सप्तदशः
'तार्थ तदन्यतममर्थ ' इति ग-पाठः। २ अत्र पाठप्रपातो न वेति विचार्यताम् । ३ 'सप्त.' इति ग-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org