________________
१९८ तत्त्वाधिगमसूत्रम्
[ अध्यायः ९ संयमोऽभिधीयते, स सप्तदशविध इति । स इत्थंरूपः संयमः सप्तदशप्रकारो भवति । तद्यथेत्यनेन तान् प्रकारानभिमुखीकरोति । पृथिवीकायिकसंयमः पृथिवी काय:
शरीरं येषां ते पृथिवीकायाः। एवं चेन्मत्वर्थीयाभावः ? उच्यतेपृथ्वीकायिकशब्दस्य सिद्धिः
१० पृथिवीकायशब्दस्य जातिशब्दत्वाद् भवत्येव मत्वर्थीयः कृष्णसर्पवल्मीक
___ इति यथा । अथवा ज्ञापकाद् भवन्ति “इधार्योः शत्रकृच्छ्रिणि" (पा० अ०३, पा० २, सू० १३०) इति । पृथिवीकायिकजातौ जातेवों संयमः-सम्यग यमः-उपरमो निवृत्तिरित्यर्थः। ये जीवाः पृथिवीशरीराः तेषां संघट्ट-परितापव्यापत्तीर्मनो-वाक्-कायैः कृतकारितानुमतिभिश्च परिहरतीत्यर्थः । एवं सर्वत्र यावत् पश्चेन्द्रियसंयमः।
भा०—प्रेक्ष्यसंयमः, उपेक्ष्यसंयमः, अपहृत्यसंयमः, प्रमृज्यसंयमः, कायसंयमः, वाक्संयमः, मनःसंयमः, उपकरणसंयम इति संयमो धर्मः ॥६॥
टी-प्रेक्ष्येति । प्रेक्ष्यसंयम इत्यत्र क्रियापदाध्याहारः। प्रेक्ष्य क्रियामाचरन् संयमेन युज्यते । प्रेक्ष्येति चक्षुषा दृष्ट्वा स्थण्डिलं बीजजन्तुहरितादिरहितं पश्चार्ध्वनिषद्यात्वग्वर्तनस्थानानि विदधीतेत्येवमाचरतः संयमो भवति । उपेक्ष्यसंयम इति व्यापार्याऽव्यापार्य चेत्यर्थः। एवं च संयमो भवति, साधन व्यापारयतःप्रवचनविहितासु क्रियासु संयम इति क्यापारणमेवोपेक्षणं गृहस्थान् स्वक्रियासु अव्यापारवत उपेक्षमाणस्य-औदासीन्यं भजतः संयमो भवति । अपहृत्यसंयम इति । प्रोजय-परिवयं संयम लभते, वस्त्रपात्रायतिरिक्तमनुपकारकं चरणस्य वर्जयतः संयमलाभः, भक्तपानादि वा संसक्तं विधिना परित्यजत इति । प्रमृज्यः संयम इति प्रेक्षिते स्थण्डिले रजोहत्या प्रमार्जनमनुविधाय स्थानादि कार्य पथि वा गच्छता सचित्ताचित्तमिश्रपृथिवीकायरजोऽनुरञ्जितचरणस्य स्थण्डिलात् स्थण्डिलं सक्रामतोऽस्थण्डिलाद् वा स्थण्डिलं प्रमृज्य चरणौ संयमभाक्त्वमगार्यादिरहितेऽन्यथा त्वप्रमार्जयत ऐव संयमः। कायसंयम इति । धावन-वल्गन-प्लवनादिनिवृत्तिः, शुभक्रियासु च प्रवृत्तिः । वाक्संयमो हिंस्र-परुषादिनिवृत्तिः, शुभभाषायां च प्रवृत्तिः । मनःसंयमोऽभिद्रोहा-अभिमानेयादिनिवृत्तिा, धर्मध्यानादिषु च प्रवृत्तिः। उपकरणसंयम इत्यजीवकायसंयमः । पुस्तकग्रहणे अजीवकार्यश्च पुस्तकादिः, तत्र यदा ग्रहणधारणशक्तिसम्पद्भाजोऽभूवन्
हेतुः पुरुषाः दीर्घायुषश्च तदा नासीत् प्रयोजनं पुस्तकैः, दुष्षमानुभावात् तु परिहीनैर्ग्रहणधारणादिभिरस्ति नियुक्त्यादिपुस्तकग्रहणानुज्ञेत्येवं यथा कालमपेक्ष्यासंयमः संयमो वा भवतीत्येवं संयमो धर्मः॥
१'यत्रोपरमः' इति ग-पाठः। २ 'निषद्यत्वेन' इति ङ-पाठः। ३ 'क्षणं ग्रहण गृहस्था' इति ग-पाठः। 'एचा इतिच-पाठः। ५ 'कायसंयमव' इति ग-पाठा।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org