SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ सूत्र ६] स्वोपज्ञभाष्य टीकालङ्कृतम् सम्प्रति तपः प्रस्तावायातमुच्यते भा०-तपो विविधम् । तत् परस्ताद (अ० ९, सू० १९-२०) वक्ष्यते । प्रकीर्णकं चेमनेकविधम् । टी–तपो द्विविधमित्यादि । तपतीति तपः। कर्तर्यसुन् वा। संयमात्मनः शेषाशयविशोधनार्थ बाह्याभ्यन्तरतपनं तपः। शरीरेन्द्रियतापनात् कर्मनिर्दहनाच तपः । अपर वपोलक्षणे आह–“विशेषेण कायमनस्तापविशेषात् तपः"। द्विविधमिति बाह्यमा मतान्तरम् भ्यन्तरं वा (च)। बाह्यमिति वाह्यद्रव्यापेक्षत्वात् तीर्थिकगृहस्थादिकार्यत्वाच्च । आभ्यन्तरं त्वन्यतीथिकानभ्यस्तत्वादन्तःकरणव्यापारस्य प्राधान्याद् बाह्यद्रव्यानपेक्षत्वाच्च । अन्ये त्वाहुः-"परप्रत्यक्षं बाह्यम् । स्वप्रत्यक्षमाभ्यन्तरम्" । अथवा आतापनादिः कायक्लेशस्तपो बहिर्लक्ष्यत इति बाह्यम् । अनशनादिभ्यो[ वा तेभ्यो ऽपि च बहिस्तरां वर्तत इति तदुपलक्षितं बाह्यम् । नैवं प्रायश्चित्तादि । तत् परस्ताद-उपरिष्टाद् वक्ष्यते-अनशनावमौदार्यादि प्रायश्चित्तविनयादि च यथाक्रमम् । इह त्वशून्यार्थ पुरुषविशेषचरितं प्रकीर्णकं का. लाहारादिनियतमनेकविधं तद्यथेत्यादिना दर्शयति भा०-तद्यथा-यववज्रमध्ये चन्द्रप्रतिमे है। कनकरनमुक्तावल्यस्तिस्रः। सिंहविक्रीडिते हे ॥ सी०-यववज्रमध्ये चन्द्रप्रतिमे वे इति। मध्यशब्दः प्रत्येकमभिसम्बध्यते-येवमध्या पेजमध्या च । चन्द्रप्रतिमे इति चन्द्रतुल्ये । यथा चन्द्रस्य कलावृद्धिः प्रतिदिनमेवं भिक्षाकरलवृद्धिः। यथा चन्द्रस्य हानिः प्रतिदिनं तथा भिक्षाकवलहानिरिति । तत्र यवमध्या चन्द्रप्रतिमा शुक्ल प्रतिपदारम्भादमावास्यान्ता, प्रतिपद आरभ्य यथा चन्द्रस्य कलावृद्धिः (तथा मिक्षाकवलवृद्धिः), कवलवृद्धिर्वा यावत् पौर्णमास्यां पञ्चदश कवलाः। ततः कृष्णप्रतिपद्यपि पञ्चदशैव । एवमेकैककवलहान्या यावदमावास्यायामेकः कवल इत्येषा यवमध्या। वज्रमध्या कृष्णप्रतिपदारम्भा, कृष्णप्रतिपदि पश्चदशकवलानभ्यवहरति । तत्राप्येकैककपलहानिर्यावदमावास्यायामेकः कवलः, शुक्ल प्रतिपद्यप्येक एवेति । द्वितीयादिग्वेकैकवृद्धिर्यावत् पोर्णमास्यां पञ्चदशेत्येषा वज्रमध्या। वक्ष्यति इति ग-पाठः। २'तप्यतीति' इति ग-पाठः। ३'तापनं तपः' इति -पाठः। ४-५ 'यवस्येव मध्ये स्थूलस्य पर्यन्तभागयोस्तु तनुकस्य मध्यं यस्याः सा यवमध्या, धजस्येव मध्ये तनुरूस्त पर्यस्तयोस्तु स्थूलस्य मध्यं यस्याः सा पञमध्या' इति श्रीनेमिचन्द्रसरिवरविरचितस्य प्रवचनसारोद्धारस्य भीसिद्धसेनसूरिकृतटीकायो (४४०तमे पत्रा)। ६ यवमया चम्मप्रतिमामुद्दिश्य प्रोकम् “एकैको वर्धये भिक्षा, शुक्ले कृष्णे च हापयेत् । भुजीत नामावास्याया-मेष चानायणो विधिः॥" Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004023
Book TitleTattvarthadhigam Sutram Part 02
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages396
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy