________________
सूत्र १६]
२९
वेदनीयस्यास्रवः, स्वशोकोत्पादशोचनपरदुःख निष्कारणशोकमूकताभिनन्दिता शोकवेदनीयस्य, विचित्र परिक्रीडनपर चित्तावर्जन बहुविधरमणपीडाभावदेशाद्यौत्सुक्यप्रीतिसञ्जननादीनि रतिवेदनीयस्य, परराजप्रादुर्भावनरतिविनाशपापशीलताकुशलक्रियाप्रोत्साहनास्तेयादयस्त्वरतिवेदनीयस्य, स्वयंभयपरिणाम भयोत्पादन निर्दयत्वत्रासनादीनि भयस्य, सद्धर्मप्रसक्तचतुर्वर्णकुशलक्रियाचारप्रवणजुगुप्सापरिवादनशीलत्वादयो जुगुप्साया आस्रवा भवन्ति ॥
स्वोपज्ञभाष्य-टीकालङ्कृतम्
कषायोदय । दित्यादि भाष्यम् । कषः - संसारः कर्म वा तस्य आयास्तेषामुदयो - विपाकस्तस्मात् कारणभूताद् यस्तीत्रः - प्रकर्षप्राप्त आत्मनो - भवितुः परिणामचारित्रमोहस्यास्रवो भवति । तद्यथा — परमधार्मिकाणां साधूनां गर्हणया धर्माभिमुखानां च विघ्नकारितया देशविरतिजनान्तरायकरणेन मधुमद्यगांसाविरतिगुणदर्शनेन चारित्रगुणसन्दूषणेनाचारित्रदर्शनेन परस्य कषायनोकषायोदीरणेन चरणगुणोपघातकारिकपायनोकपाय वेदनीयं चारिमोहं बनातीति ॥ १५ ॥
अथायुश्चतुष्टयस्य यथायथं क आत्रेवक्रम इति पृष्टे ब्रूमः - चतुर्णामाद्यस्य नियतकाल
पाकस्य
सूत्रम् — बह्वारम्भपरिग्रहत्वं च नारकस्यायुषः ॥ ६–१६ ॥ भा०—बहारम्भता बहुपरिग्रहता च नारकस्यायुष आस्रवो भवति ॥ १६॥
टी० - बहुः - विपुलः - प्रभूतः आरम्भणमारम्भः - प्राणिप्राणव्यपरोपणं अनवरतखण्डनीपेषणी चुल्लयुदकुम्भप्रमार्जनी व्यापारो वा । बहुवासावारम्भथ बहारम्भः । परिग्रहणं परिग्रहः - मूर्च्छा-गा - ममत्वमान्तरेषु शरीरादिषु ब्राह्येषु च वस्तुषु क्षेत्र वास्तु हिरण्यसुवर्णादिषु स्नेहः । बहुश्चासौ परिग्रहश्च बहुपरिग्रहः तयोर्ब्रहारम्भपरिग्रहयोर्भावो बहारम्भपरिग्रहत्वम् तथा परिणाम आत्मनः । चशब्दः समुचितौ । तामेव भाष्येण दर्शयति । भावप्रत्ययं च प्रत्येकमभिसम्बध्नाति - बहारम्भता बहुपरिग्रहता चेति । नरकाः पापक
सवानामधिवासा अनादिकालप्रसिद्धास्तेषु भवा नारकास्तेषां नारकाणां यदायुः - जीवनं तस्यास्रवो भवति । तेषु नारकेषु वा भवे यदायुरिति सम्बन्धः । अपरे ब्रुवते - बहारम्भाः परिग्रहा यस्यासौ बद्दारम्भपरिग्रहस्तद्भावो बहारम्भपरिग्रहत्वम् । चशब्दादागमोक्तं च कारणद्वयमभिसम्बध्नाति । कुगपाहाराभ्यवहारित्वमसकृत् पश्चेन्द्रिय सवबह्वारम्भपरिग्रहताया व्यापादश्चेत्यस्मिन् पक्षे भाष्यं न सम्यग् गमितं स्यात् । अपरे व्याचव्याख्यान्तरम् क्षते – बहारम्भपरिग्रहत्वं चशब्दात् कषायोदयात् तीव्रपरिणामश्चानुकृष्यते । एवमेव बद्दारम्भपरिग्रहकुणपाहारपश्चेन्द्रियवधा आसेविता भा
१' भाधवा इति' इति पाठः । २ ' सम्बध्यते ' इति ङ-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org