________________
तस्वार्थाधिगमसूत्रम्
[अध्यायः ६ सामान्येन वा सङ्घस्यावर्गख्यापनम् । काकभृगालसारमेयानामपि समुदायः सङ्घ एवोच्यते । तेन सङ्घोऽगौरवास्पदम् । यच्चाभिधीयते-तीर्थकरानन्तरत्वात् सङ्घः सपर्याहस्तदपि स्वमनीषापरिकल्पनमात्रमित्याद्यवर्णोद्भावनम् । तथा पञ्चमहाव्रतसाधनस्य धर्मस्यावर्णभाषणं, पञ्चसंख्यापरिच्छिन्नानि महान्ति व्रतान्यणुव्रतापेक्षयः जायन्ते तानि साधनमस्य धर्मस्य पश्चमहाव्रतसाधनः, मनोवाकायैः कृतकारितानुमतिभिश्व प्राणिवधादिनिवृत्तयो महाव्रतानि, रजनिभोजनाधाकर्माद्यशेषोत्तरगुणाक्षेपो महाव्रतैरेव, अतः क्षमादेर्दशलक्षणकस्य धर्मस्यावर्णवादो दर्शनमोहस्यास्रवः, न पशुविशसनादेर्धाभासस्य, मायासुनुप्रणीतस्य चारम्भकस्य । कः पुनस्तस्यापवादः अभ्युदयापवर्गहेतुर्धर्मो न प्रत्यक्षादिना प्रमाणेन विषयीक्रियते । ने चाsप्रमाणकोऽस्तीति वक्तुं पार्यते । न च पुद्गला धर्मशब्दवाच्याः पुद्गलत्वादेव । नाप्यात्मपरिणामो धर्मः आत्मशब्दपरिणामवाच्यत्वात् क्रोधादिपरिणामवदित्याद्यवर्णभाषणम् । चतुर्विधानांच देवानामवर्णवादः। चतस्रो विधा येषां ते चतुर्विधाः-भवनपति-व्यन्तर-ज्योतिषिक-वैमानिकाः । चशब्दः समुच्चयार्थः । तेषां चावर्णवादो दर्शनमोहस्यास्रवः । परस्परप्रवीचाराः
खलु देवाः षण्ढवत् । अपरे बलवन्तोऽल्पबलं देवमप्यभियुज्य मैथुनमासेवन्ते देवानामवर्णवादः स्तब्धलोचनपुटास्तथाऽत्यन्तासद्भूतदोषप्रख्यापनशुक्रशोणितवल्युपहारा
शिनो देवाः। अहल्यायै जार इन्द्रः कृतभगसहस्रः छात्रैधेर्षित इत्याद्यशिष्टव्यवहारावघोषणं देवानामवर्णवादः । इतिशब्देनाद्यर्थेन तीव्रमिथ्यात्वपरिणामोन्मार्गदेशनधामिकजनतासंदूषणसर्वत्रसिद्धदेवानर्थाभिनिवेशासमीक्षितकारितासंयतपूजाप्रयोगा दर्शनमोहस्य संसारपरिद्धिमूलनिमित्तस्यानन्तसंसारानुबन्धिनो मिथ्यात्वस्यास्रवा द्रष्टव्याः ॥ १४ ॥
अथ चारित्रमोहनीयस्य क आस्रव इत्युच्यतेसूत्रम्-कषायोदयात् तीव्रात्मपरिणामश्चारित्रमोहस्य ॥ ६-१५॥
मा०-कषायोदयात् तीव्रात्मपरिणामश्चारित्रमोहस्यास्रवो भवति ॥१५॥
टी०-कषायाः-कोपादयः तेषामुदितिः उदयः स निमित्तत्वेनापदिश्यते । अस्य कोपादेः कषायस्य तीव्रा:-प्रकृष्टाः परिणामा-आत्मनोऽवस्थाविशेषाः शब्दादि विषयेषु गायमीाल
- त्वमनृतवादित्वं वक्रता परदाररतिप्रियता स्त्रीवेदवन्धहेतवः, ऋजुसमा... चारता मदक्रोधकषायादिना स्वदाररतिप्रियता अनीालुत्वं पुरुषवेदव
न्धहेतवः, तीव्रक्रोधादिना पशूनां वधक्षणनमुण्डनरतित्वं स्त्रीपुरुषेध्वनङ्गसेवनशीलता शीलवतगुणधारिणः पापण्डयोषित्सव्यभिचारकारिता तीव्र विषयानुबन्धिता च नपुंसकबन्धहेतवः, उत्प्रासनदीनाभिलाषिताकन्दर्पोपहासनबहुप्रलापहासशीलता हास्य
'यद्वाऽभि० ' इति क-पाठः। २' तथा ' इति इ-पाठः। ३ स्नात्रैषित' इति क-स-पाठः । .भन्यकोपादेः' इति ङ-पाठः ।
सीता
नोकषाय
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org