________________
सत्र २२] स्वोपज्ञभाष्य-टीकालङ्कृतम्
१६९ न्यार्धमासः,अबाधाअन्तर्मुहूर्तकालः। संज्वलनलोभस्यान्तर्मुहूर्तकाला स्थितिजघन्या, अबाधाप्यन्तर्मुहूर्त एव। पुंवेदस्य जघन्या स्थितिरष्टौ वर्षाणि, अबाधा अन्तर्मुहूर्तकालः। हास्यरत्यरतिमयशोकजुगुप्सास्त्रीनपुंसकवेदानां जघन्या स्थितिः सागरोपमभागौ द्वौ पल्योपमासङ्ख्येयभागन्यूनौ, अन्तर्मुहूर्तश्चाबाधा । देवनारकायुषां जघन्या स्थितिः दश वर्षसहस्राणि, अबाधा अन्तर्मुहूतेकालः। तिर्यग्मनुष्यायुषां जघन्या स्थितिः क्षुल्लकभवग्रहणम्, अबाधा अन्तर्मुहूर्तकाल इति ॥ एवमेतेषां ज्ञानदर्शनावरणमोहायुषां कर्मणां यत्रान्तर्मुहूर्तकाला स्थितिस्तत्रेद सूत्रमुपतिष्ठते
सूत्रम्-शेषाणामन्तर्मुहूर्तम् ॥ ८-२१ ॥ भा०-वेदनीय-नाम-गोत्रप्रकृतिभ्यः शेषाणां ज्ञानावरण-दर्शनावरण-मोहमीया-ऽऽयुष्का-ऽन्तरायप्रकृतीनामपरा स्थितिरन्तर्मुहृतं भवति ॥ २१॥
टी०-वेदनीयेत्यादि भाष्यं सुगममिति । भा०-उक्तः स्थितिबन्धः । अनुभावयन्धं वक्ष्यामः ॥
टी०-सम्प्रत्यनुभावबन्धविवक्षया आह-उक्तः स्थितिबन्धः । अनुभावपन्ध पक्ष्याम इति प्रतिज्ञातं तन्निस्तरणायाह
__ सूत्रम्-विपाकोऽनुभावः ॥ ८-२२ ॥ टी०-विपाकोऽनुभाव इति । विपचनं विपाकः-उदयावलिकाप्रवेशः। कर्मणां विशिष्टो नानाप्रकारोवापाको विपाकः-अप्रशस्तपरिणामानां तीव्रः, शुभपरिणामानां मन्दः। यथोक्तकर्मविशेषानुभवनं अनुभावः "कृत्यल्युटो बहुलं" (पा० अ० ३, पा० ३, सू० ११३) इति वचनात् । अथवाऽऽत्मनाऽनुभूयते येन करणभूतेन बन्धेन सोऽनुभावबन्धः । "करणाधिकरणयोश्च" (पा० अ०३, पा० ३, सू० ११७) इति पञ् । अनुशब्दस्य समुदायार्थ प्रदर्शनम् । अनुगतोवा भावोऽनुभाव इति प्रादिसमासःक्रियालोपी। सर्वासां हि प्रकृतीनां फलं विपाकोदयानुभावबन्धाज्जीवस्यानुसमयं कर्मानुभवनमिच्छानिच्छापूर्वकम्। तद्यथा-ज्ञानावरणस्य फलं ज्ञानाभावः दर्शनावरणस्यापि फलं दर्शनशक्त्युपरोध इति । एवं सर्वकर्मणां स्वकार्यबन्धोऽनुभूतिरिति । ___ भा०--सर्षासां प्रकृतीनां फलं विपाकोदयोऽनुभावो भवतीति। विविधा पाको विपाकः, स तथा चान्यथा चेत्यर्थः । जीवः कर्मविपाकमनुभवन् कर्मप्रत्यय मेषानाभोगवीर्यपूर्व कर्मसक्रमं करोति ।
टी.-सर्वासां प्रकृतीनामित्यादि भाष्यम् । सर्वासामिति कायग्रहणम् । कर्मपन्धस्य फलं विपाका तस्योदयोऽनुभाव इति पर्यायकथनेन व्याख्या भवति । वेद्यते अवश्यभावी विपाकः सर्वस्य कर्मणः। विशब्दार्थमाचष्टे-विविधो-जानाभकारः पाको विपाक
१ 'अनुभागबन्ध ' इति ग-पाठः । २ - बन्धनं ' इति ग-पाठः। ३ भवति ' इति घ-पाठः ।
२२
For Personal & Private Use Only
www.jainelibrary.org
Jain Education International