________________
१६८
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ८ स्वन्तर्मुहूर्तम् । एवमेता नामकर्मणः सप्तपष्टिरुत्तरप्रकृतयः । शेषकर्मणां त्रिपश्चाशत् । एवं च विंशत्युत्तरं प्रकृतिशतं भवति ॥
सम्प्रति नामप्रकृतीनामेव जघन्या स्थितिरुच्यते । मनुष्यतिर्यग्गतिपश्चेन्द्रियजातिरौ दारिकतैजसकार्मणानि संस्थानपट्कं औदारिकाङ्गोपाङ्गं संहननषट्कं वर्णगन्धरसस्पर्शाः तिर्यग्मनुष्यानुपूव्यौँ अगुरुलधूपघातपराघातोच्छ्वासातपोद्योताः प्रशस्ताप्रशस्ते विहायोगती
त्रसस्थावरशुभाशुभसुभगदुर्भगसुस्वरदुःस्वरसूक्ष्मवादरपयोप्तापयोप्तप्रत्येकनामप्रकृतीनां साधारणशरीरस्थिरास्थिराऽऽदेयानादेयनिर्माणायशसां सागरोपमस्य द्वौ जघन्या स्थितिरखाधा च सप्तभागौ जघन्या स्थितिः पल्योपमासङ्ख्येयभागेन न्यूनौ, अबाधा
त्वन्तर्मुहूतेकालः, देवनरगती आद्यं जातिचतुष्क वैक्रियशरीरं एतदङ्गो. पाङ्ग नरकदेवानुपूर्वीणां जघन्या स्थितिः सागरोपमसहस्रस्य द्वौ सप्तभागौ पल्योपमासंख्येयभागभागेन न्यूनौ, अबाधाकालोऽन्तर्मुहूर्तः । आहारकशरीरे तदङ्गोपाङ्गतीर्थकरनाम्नां जघन्या स्थितिः सागरोपमकोटीकोट्यन्तः, अबाधा त्वन्तर्मुहूतकालः । यशाकीर्तेर्जघन्या स्थितिरष्टौ मुहूतोः, अबाधा त्वन्तमुहूतेकाल इति, अत्र सूत्रोपनिबन्धः कृतो वाचकेनेति, इतरा तु मध्यमा बहुवक्तव्यत्वादुपेक्षिता ।
सूत्रम्-नामगोत्रयोरष्टौ ॥ ८-२० ॥ भा०-नामगोत्रप्रकृत्योरष्टौ मुहूर्ता अपरा स्थितिर्भवति ॥ २० ॥
टी.-नामगोत्रप्रकृत्योरित्यादि भाष्यं गतार्थम् । एवमेतासां नामप्रकृतीनां सप्तपेष्टिसंख्यानामुत्कृष्टा जघन्या च स्थितिरुक्तेति । सम्प्रति गोत्रकर्मण उत्तरप्रकृत्योर्जघन्या स्थितिरभिधीयते । नीचैर्गोत्रस्य जपल्या स्थितिः सागरोपमस्य द्वौ सप्तभागौ पल्योपमासंख्येयभागेन न्यूनौ, अबाधा त्वन्तर्मुहूर्तकालः । उच्चैर्गोत्रस्थितिजघन्येनाष्टी मुहूर्ताः, अबाधा त्वन्तर्मुहूर्तकाल इति, अत्रापि सूत्रानुप्रवेशः.॥२०॥
पञ्चानां ज्ञानावरणप्रकृतीनां चक्षुरादिदर्शनावरणप्रकृतिचतुष्टय्याः पश्चानां चान्तरायतावरणादीनां प्रकृतीनां जघन्या स्थितिरन्तर्मुहूर्त कालः, अवाधाप्यन्तमुहूर्त एव । दर्शनाउत्तरप्रकृतीनां वरणे निद्रापञ्चकस्य जघन्या स्थितिः सागरोपमस्य त्रयः सप्तभागा: जघन्या स्थितिर. पल्योपमासङ्ख्येयभागेन न्यूनाः । मोहनीयप्रकृतेः मिथ्यात्वस्य सप्त
बाधा च। भागाः सागरोपमस्य जघन्या स्थितिः पल्योपमासङ्ख्येयभागेन न्यूनाः। अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणकपायाणां द्वादशानां चत्वारो भागाः सागरोपमस्य जपन्या स्थितिः पल्योपमासङ्ख्येयभागन्यूनाः। संज्वलनक्रोधस्य जघन्या स्थितिर्मासद्वयम्,अन्त. महूर्तश्चाबाधा। संज्वलनमानस्य जघन्या,स्थितिर्मासः अन्तर्मुहूर्तमवाधा। संज्वलनमायाप्रकृतेजध
१ 'षष्टेरुत्कृष्ट ' इति च-पाठः । ३ ' चत्वारो भागाः सागरोपमस्य ' इति च-प्रती नास्ति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org