________________
सूत्रं १९ ] स्वोपज्ञभाष्य-टीकालङ्कृतम्
१६७ मूलप्रकृतीनामुक्तः सामान्येन स्थितिबन्ध उत्कृष्टः। सम्प्रत्युत्तरप्रकृतीनां प्रत्येकमु
स्कृष्टो जघन्यश्वोच्यते सूत्रक्रमाश्रयणेन । तत्रासद्वेद्यप्रकृतेस्त्रिंशत् सागरोसातासात्योः पमकोटीकोट्यः स्थितिः परा, जघन्या सागरोपमस्य सप्तभागास्त्रयः परापरी बन्धी पल्योपमस्यासङ्ख्येयभागेन न्यूनाः, सद्वेद्यस्य पञ्चदश सागरोपमकोटी
कोट्य उत्कृष्टा स्थितिः, पञ्चदशवर्षशतान्यबाधा, जघन्या द्वादशमुहूतो, अबाधाऽन्तर्मुहूर्तम् ।
अत्रैतत्सूत्रमाह
सूत्रम्-अपरा द्वादशमुहूर्ता वेदनीयस्य ॥ ८-१९ ॥
भा०-घेदनीयप्रकृतेरपरा बादशमुहूर्ता स्थितिरिति ॥ १९ ॥ सूत्रपाठभेदः
टी०-वेदनीयप्रकृतेरित्यादिभाष्यम् । अपरेत्युत्कृष्टापेक्षया जघन्यो१ च्यते । अपरा जघन्येत्यर्थः । कथं मध्यमा नेति चेत् व्याख्याविशेषाददोषः। अधरेति वा सूत्रपाठः । अपरेति(?) स्पष्टमेव सूत्रमधीयते-जघन्या द्वादशमुहूर्तेति ॥ १९॥
- सम्प्रति नामगोत्रयोरुत्तरप्रकृतीनां स्थितिरुच्यते । तत्र नामप्रकृतीनां तावत् मनुष्यगतिमनुष्यगत्यानुपूर्योरुत्कृष्टः स्थितिबन्धः पञ्चदश सागरोपमकोटीकोव्यः पञ्चदशवर्षशतान्यबाधा, नरकगतिः तिर्यग्गतिरेकेन्द्रिया जातिः पश्चेन्द्रियजातिः औदारिक-वैक्रिय-तैजसकार्मणशरीराणि हुण्डसंस्थानं औदारिकाङ्गोपाङ्गं वैक्रियाङ्गोपाङ्गं च वज्रसंहननं वर्णगन्धरसस्पर्शनरकानुपूर्वीतियेगानुपूर्वीअगुरुलघूपघातपराघातोच्छासातपोद्योताप्रशस्तविहायोगतित्रस
. स्थावरवादरपर्याप्तप्रत्येकशरीरास्थिरासुभगदुर्भगदुःस्वरानादेयायशःकीनामकर्मोत्तरप्रकृ. तिनिर्माणनाम्नामुत्कृष्टस्थितिबन्धो विंशतिः सागरोपमकोटीकोव्यः
तीनामुत्कृष्टा स्थितिरबाधा च
च वर्षसहस्रद्वयमबाधा। देवगतिर्देवगत्यानुपूर्वी समचतुरस्रसंस्थानं वर्ष
" भनाराचसंहननं प्रशस्त विहायोगतिस्थिरशुभसुभगसुस्वरादेययश-कीर्तीनां दश सागरोपमकोटीकोट्यः परा स्थितिः दश वषेशतान्यबाधा । न्यग्रोधसंस्थानवज्रनाराच. संहननयोदशसागरोपमकोटीकोव्यः परा स्थितिः द्वादश वर्षशतान्यबाधा । साचिसंस्थाननाराचसंहननयोश्चतुर्दशसागरोपमकोटीकोट्य उत्कृष्टा स्थितिः, चतुर्दश वर्षशतान्यबाधा । कुब्जसंस्थानार्धनाराचसंहननयोरुत्कृष्टा स्थितिः षोडश सागरोपमकोटीकोट्यः षोडश वर्षशतान्यबाधा । वामनसंस्थानकीलिकासंहननद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियजातीनां सूक्ष्मापप्तिसाधारणनाम्नां चोत्कृष्टा स्थितिरष्टादश सागरोपमकोटीकोट्यः, अष्टादश वर्षशतान्यबाधा, आहारकशरीर एतदङ्गोपाङ्गतीर्थकरनाम्नामुत्कृष्टा स्थितिः सागरोपमकोटीकोटेरन्तः अबाधा
१ 'श्रयणात्' इति ग-पाठः । २ 'क्त ' इति ङ-पाठः । ३ स्थितिबाधा ' इति च-पाठः । ४ 'द्वादश' इति च-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org