________________
१६६ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ८ भा०-आदितस्तिमृणां कर्मप्रकृतीनां ज्ञानावरण-दर्शनावरण-वेद्यानाम् अन्तरायप्रकृतेश्च त्रिंशत् सागरोपमकोटीकोट्यः परा स्थितिः ॥ १५ ॥
टी-ज्ञानदर्शनावरणवेद्यानामन्तरायकर्मणश्चैषा स्थितिः-अवस्थानं बन्धकाभातावरणीयादि- लात् प्रभृति यावदशेषं निर्जीणमित्येष स्थितिकालः । एवमासां चतसृणां प्रकृतीनामबाधा- मूलप्रकृतीनां उत्कृष्टः स्थितिबन्ध उक्तः । वर्षसहस्रत्रितयं चाबाधा
कालः । बाधाकालस्तु यत्प्रभृति ज्ञानावरणादिकम उदयावलिकाप्रविष्टं यावच्च निःशेषमुपक्षीणं तावद् भवति, तच्चोदयावलिकां प्रविशति बन्धकालादारभ्य त्रिषु वर्षेसहस्रेष्वतीतेषु, स खल्यबाधाकालो यतस्तत् कर्म नानुभूयते तावन्तं कालमिति ॥ १५ ॥
अथ मोहनीयकर्मप्रकृतेः कियान् स्थितिबन्ध इति तदभिधानायाह
सूत्रम्-सप्ततिर्मोहनीयस्य ॥ ८-१६ ॥
भा०-मोहनीयस्य कर्मप्रकृतेः सप्ततिसागरोपमकोटीकोव्यः परा स्थितिः ॥ १६ ॥
टी.-सप्ततिर्मोहनीयस्येति । सागरोपमकोटीकोव्य इत्यनुवर्तते। ताः सप्ततिसंख्ययो सम्बध्यन्ते । मोहनीयेत्यादिना एतदेव स्पष्टतरं विवृणोति, प्रतिपादितार्थ चैतद भाष्यमिति । अस्यास्त्वबाधाकालः सप्त वर्षसहस्राणि । ततःपरं बाधाकालो यावदशेष क्षीणमिति ॥ १६॥ नामगोत्रमूलप्रकृत्योः स्थितिप्रतिपादनायाह
सूत्रम्-नामगोत्रयोविंशतिः ॥ ८-१७ ॥ भा०-नामगोत्रप्रकृत्योविंशतिः सागरोपमकोटीकोव्यः परा स्थितिः॥१७॥
टी-नामकर्मणो गोत्रकर्मणश्चविंशतिः सागरोपमकोटीकोट्यः परा स्थितिरिति । नामगोत्रेत्यादिना भाष्येण स्पष्टीकृत एषोऽर्थः । अस्याप्यबाधाकालो वर्षसहस्रद्वयमिति ॥ १७ ॥
आयुष्कोत्कृष्टस्थितिप्रतिपादनायाह
सूत्रम्-त्रयस्त्रिंशत् सागरोपमाण्यायुष्कस्य ॥ ८-१९॥ भा०-आयुष्कप्रकृतेस्त्रयस्त्रिंशत् सागरोपमाणि परा स्थितिः ॥ १८ ॥
टी-त्रयस्त्रिंशदित्यादि । त्रयस्त्रिंशत् सागरोपमाणि पूर्वको टित्रिभागाभ्यधिकानि। प्रयस्त्रिंशद्वचनात्.कोटीकोट्य इति निवृत्तम् । पूर्वकोटित्रिभागवावाधाकालः। भायुष्कप्रकृते. रित्यादि भाष्यं सुज्ञानमेव ॥ १८ ॥
१ 'एवमेतासां ' इति व-पाठः । २ " ०यकर्म० ' इति घ-पाठः । ३ 'याऽभिसम्ब० ' इति ग-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org