________________
सूत्र ७ ] स्वोपज्ञभाष्य-टीकालङ्कृतम्
२०९ लोचनपूर्वरतस्मृतिवृष्यरसकामकथनेभ्यः संसक्तादावमथाच विरतयो भावना ब्रह्मणः, इष्टाश्च शुभा ये स्पर्शादयः, शरीरविभूषा. च, तत्रानभिनन्दत्वं-तत्प्राप्तावप्यपरितुष्टिर्मनसोऽप्रसादः-अरक्तद्विष्टतेत्येवं ब्रह्मचर्य जायते इति । तदेवं क्षमया क्रोधं निहन्यात, निहतक्रोधो नीचैर्वृत्त्यनुत्सेकाभ्यां मार्दवं धारयेत्, परित्यक्तमदस्थान आर्जवं भावयेत् , भावदोषवर्जनेन निगूढदोषां मायामार्जवेन प्रेकटीकृत्य शौचमाचरेत् अलोभसंश्रयेण, लोभाशौचं अलोमशौचेन
.....संशोध्य शुद्धात्मा सत्यं ब्रूयात् , सत्यभाषी सप्तदशविधं संयममनुतिष्ठेत, ब्रह्मचर्यस्य प
पा संयतात्मा शेषाशयविशोधनार्थे तपश्चरेत्, ततो बाह्यान्यपि धर्मसाधनानि पूर्णतायां साधनानि त्यजेत. विद्यमानेष्वपि कायवाङ्मानसेषु धर्मोपकरणेषु स्वजनसुहृत्सम्बन्धिषु च निःस्पृहत्वान्निर्ममत्वाख्यमाकिश्चन्यं भावयेत् । सत्याकिञ्चन्ये ब्रह्मचर्य परिपूर्ण भवतीति ॥६॥
एवं परमविशुद्धिलक्षणे धर्मे व्यवस्थितः पुनरपि आत्मगुणदोषजुगुप्साथ जगद् द्वादशभिः स्वतत्त्वैविभज्यानुचिन्तयेदित्याह
सूत्रम्-अनित्या-ऽशरण-संसारै-कत्वा-ऽन्यत्वा-शुचिद्वादश भावना
त्वाऽऽत्रव-संवर-निर्जरा-लोक-बोधिदुर्लभ-धर्म
स्वाख्यातंत्वानुचिन्तनमनुप्रेक्षाः ॥ ९-७॥ टी-अपरे पठन्ति-अनुप्रेक्षा इति अनुप्रेक्षितव्या इत्यर्थः। अपरेऽनुप्रेक्षाशब्दमेकवचनान्तमधीयते, तत्रार्थोऽनित्यादिचिन्तनमनुप्रक्षाच्यते, बहुवचनान्ते त्वनित्यादिचिन्तनान्यनुप्रेक्षा इति ।
भा०-एता द्वादशानुप्रेक्षाः। तत्र बाह्याभ्यन्तराणि शरीर-शय्या-ऽऽसनवस्त्रादीनि द्रव्याणि सर्वसंयोगाश्वानित्या इत्यनुचिन्तयेत् । एवं ह्यस्य चिन्तयतस्तेष्वभिष्वङ्गो न भवति । मा भून्मे तहियोगजं दुःखमित्यनित्यानुप्रेक्षा ॥१॥
टी-एता द्वादशानुप्रेक्षा इत्यादि । एता अनित्यादिकाः परामृश्यन्ते। द्वादशेति द्वादशैव, नाधिका न्यूना वा। अनुप्रेक्षणमनुप्रेक्षा । अनुप्रेक्ष्यन्ते अनुचिन्त्यन्त इति वाऽनुप्रेक्षाः। तत्र-तास्वनित्यभावना तावद् भण्यत । तत्रानित्यादया धर्मस्वाख्यातान्ताः कृतद्वन्द्वाः विहितभावप्रत्यया अनुचिन्तनशब्देन सह कृतषष्ठासमासास्तत्पुरुषसमानाधिकरणानुप्रेक्षाशब्देन सह सम्प्रतिपद्यन्ते । अभ्यन्तरं शरीरद्रव्यं जीवप्रदशेम्पोसत्वात् बाह्यानि शय्या-ऽऽसन-वखा
दीनि । आदिग्रहणादोधिकोपग्रहिकोपधेः समस्तस्य ग्रहणम् । तत्र अनित्यभावनाया शरीरं तावत जन्मनः प्रभृति पूर्वावस्थां जहदुत्तरावस्थामास्कन्दत् प्रतिक्षस्वरूपम्
णमन्यथाऽन्यथा च भवजराजरितसकलावयवं पुद्गलजालविरचनामात्र १'वसत्वाच' इति हु-च-पाठः। २ 'प्रकृत्य' इति ङ-पाठः । ३ 'ततत्त्वानु०' इति घ-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org